SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२४१ (B) धर्मकथानामाख्यायिकानाम् विकथानां च स्त्रीकथादीनां करणे प्रेरणे च नानारूपे गृहिणामुधुक्ता:१५ । तथा गृहिनिषद्यां बाधन्ते गृहिनिषद्यासु उपविशन्तीत्यर्थः । संस्तवं वा परिचयं वा गृहस्थैः सह कुर्वन्ति, उपलक्षणमेतद् वस्त्राण्यन्नपानं वा गृहस्थानां ताः संयत्यो ददति, अविरतीश्च मण्डयन्ति, मण्डनोपदेशं वा तासां प्रयच्छन्ति, मण्डनकानि वा ददतीति १६ ॥ ३०५३ ॥ एवं तु ताहिं सिटे, निक्खिवियव्वा उ ता उ कहियं तु । दोसु वि संविग्गेसुं, निक्खिवियव्वा भवे तातो ॥ ३०५४॥ एवमुक्तेन प्रकारेण ताभिः संयतीभिः शिष्टे कथिते ताः क्व निक्षेप्तव्याः? सूरिराहद्वयोरपि संयत-संयतीवर्गयोः संविग्नयोस्ता भवन्ति निक्षेप्तव्याः । अत्र संयत-संयतीवर्गयोः । ४३०४७-३०५४ संविग्नासंविग्नभेदतश्चत्वारो भङ्गाः। तद्यथा संयताः सीदन्ति संयत्योऽपि च सीदन्ति इति असंविग्नप्रथमो भङ्गः। संयताः सीदन्ति न संयत्य इति द्वितीयः । संयता न सीदन्ति किन्तु संयत्यः स्वरूपम् सीदन्तीति तृतीयः। न संयताः सीदन्ति नापि संयत्य इति चतुर्थः । तत्र 'दोसु वि संविग्गेसु' इति चतुर्थो भङ्गो गृहीतः, शेषेषु तु भङ्गेषु निक्षेपणं प्रतिषिद्धम् ॥ ३०५४ ॥ . गाथा १२४१ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy