SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२०० (A) www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्वसूत्रेभ्य: सम्भोगे प्रवृत्ते प्रस्तुतसूत्राभिहिता उपस्थाप्य सम्भुज्यते । अथवा शिष्यत्वमाचार्यत्वं च प्रकृतमस्ति ततः शिष्याचार्यत्वे प्रकृतेऽनेनापि सूत्रद्वयेनेदमुच्यते- अन्यस्यार्थाय [ दीक्षेयां ] निर्ग्रन्थीं दीक्षयन्ति नात्मनोऽर्थायेति ॥ २९०९ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्यान कल्पते निर्ग्रन्थीमात्मनोऽर्थाय प्रव्राजयितुं सामायिकारोपणतो मुण्डापयितुं लोचकारापणतः शिक्षापयितुमासेवनाशिक्षाग्रहणशिक्षाप्रदानतः उपस्थापयितुमुपस्थापनाकरणतः संम्भोक्तुं षण्णां सम्भोगानामन्यतमेन यथायोगसम्भोगेन संवस्तुं, तथा तस्याम् इत्वरां दिशमाचार्यलक्षणामनुदिशं वा उपाध्यायादिरूपामुद्देष्टुं वा धारयितुं वा । कल्पते निर्ग्रन्थानां निर्ग्रन्थीमन्येषामर्थाय इत्यादि प्राग्वत् नवरमन्येषामित्याचार्यस्योपाध्यायस्य प्रवर्त्तिन्या वा अर्थाय, एते एतस्या उपग्रहं करिष्यन्तीत्यभिप्रायेण । शेषं सुगमम् ॥ अत्र भाष्यम्अण्णट्टमप्पणो वा, पव्वावणे चउगुरुं च आदी । मिच्छत्त तेणसंकट्ठ मेहुणे गाहणे जं च ॥ २९१० ॥ शिष्यस्य मे सर्वकार्येषु सहायिका भविष्यतीत्येवमन्यार्थम् एवमात्मनो वाऽर्थाय यदि १. सूत्रे संवसित्तए वा, संभुजित्तए वा, इति, अत्र क्रमभेद इति ज्ञेयम् ॥ For Private And Personal Use Only गाथा |२९१०-२९१५ प्रवाजने हेतव: १२०० (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy