SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०४८ (B) ܀܀܀܀܀܀ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथवाऽयं सम्बन्धः गेलण्णमहिकयं वा, गिलाणहेउं इमो वि आरंभो । आगाढं च तदुत्तं, सहणीयतरं इमं होति ॥ २४२८ ॥ वाशब्दः प्रकारान्तरद्योतने । ग्लानत्वमनन्तरसूत्रे ऽधिकृतम् । अयमपि च सूत्राऽऽरम्भो ' ग्लानहेतुरिति सूत्रसम्बन्धः । केवलं यदनन्तरसूत्रे उक्तं ग्लानत्वं तदागाढम्, कालक्षेपाऽसहनात्; इदं त्वधिकृतसूत्रसूचितं सहनीयतरम्, ज्ञातविधिं गन्तुं शक्तत्वादिति ॥२४२८ ॥ एवमनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या भिक्षुः चशब्दाद् भिक्षुकी च इच्छेत् 'ज्ञातविधिं' स्वजनभेदमागन्तुम्, तस्य न कल्पते • स्थविरान् अनापृच्छ्य ज्ञातविधिमागन्तुम्, यावत्करणादेवं परिपूर्णः पाठः - 'कप्पति थेरे 2 आपुच्छित्ता नायविहिं एत्तए । थेरा य से वियरेज्जा एवं से कप्पति नायविहिं एत्तए । जं तत्थ थेरेहिं अवितिणेि नायविहिं एइ, से अंतरा छेदे वा परिहारे वा' इदं प्राग्वत् । नो से कप्पति इत्यादि, न से तस्य कल्पते अल्पश्रुतस्याऽगीतार्थस्य अल्पागमस्य बहि:शास्त्रेष्वतिपरिचयस्याऽविद्यमानजिनागमस्य एकाकिनो ज्ञातविधिमागन्तुं, कल्पते से तस्य ० यस्तत्र गच्छे बहुश्रुतः सूत्रापेक्षया, बह्वागमोऽर्थापेक्षया, तेन सार्द्धं ज्ञातविधिमागन्तुं तत्र For Private And Personal Use Only सूत्र १ गाथा |२४२७-२४३१ ज्ञातविधिगमन * सामाचारी (१०४८ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy