SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री एकनिवेशनस्यान्तः पृथग् अन्यस्यां वसतौ स्थातव्यम् असत्येकनिवेशनस्यान्तरन्यस्याः वसतेरभावे वाटकस्याऽन्तः पृथगन्यस्यां वसतौ वसन्ति । अथवा वाटकस्याप्यन्तः पृथगन्यवसतिर्न लभ्यते तदा वाटकस्य बहिर्हस्तशताभ्यन्तरे पृथगन्या वसतिर्गवेषणीया, तस्य हस्तशतस्याभ्यन्तरे वसतेरभावे दूरेऽपि वसतिरन्या स्यात् ॥ २७०९ ॥ व्यवहारसूत्रम् षष्ठ उद्देशकः ११३५ (A) तत्र हस्तशताभ्यन्तरं यावत् यतनाविधिमाहवीसुं पि वसंताणं, दोण्णि वि आवासगा सह गुरूहिं। दूरे पोरिसिभंगे, उग्घाडाऽऽगंतु विगडेंति ॥ २७१०॥ निवेशने पाटकहस्तशताभ्यन्तरे विष्वगपि वसतामेष विधिर्दिवसे दिवसे द्वे अप्यावश्यके प्राभातिकवैकालिकप्रतिक्रमणलक्षणे सह गुरुभिः कर्तव्ये, भिक्षामटित्वा ततः सन्निवृत्ता आचार्यस्य समीपे समागत्या-ऽऽलोचयन्ति, अथ हस्तशतस्य बहिर्वसतिर्लब्धा तर्हि गुरुसमीपे चतुर्थपौरुष्यामालोचनं कृत्वा वैकालिकमावश्यकं स्वकीयायां वसतौ कुर्वन्ति । ततः प्रातरप्यावश्यकं तत्र कृत्वा गुरुसमीपमागत्य प्रत्याख्यानं गृह्णन्ति । दूरे इत्यादि, यदि पुनः गाथा २७०७-२७११ कारणे विष्वकसने यतना ११३५ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy