________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् षष्ठ उद्देशकः ११३० (A)
तथा चाहमतिभेएण जमाली, पुव्वग्गहिएण होति गोविंदो। संसग्गि सावगभिक्खू, गोट्ठामाहिलऽभिनिवेसेणं ॥ २६९४॥ दारं १।
मतिभेदेन मिथ्यादृष्टिर्जायते यथा जमालिः, पूर्वगृहीतेन भवति मिथ्यादृष्टिर्यथा गोविन्दः, संसर्या यथा श्रावकभिक्षुः, अभिनिवेशेन यथा गोष्ठामाहिलः, एतानि च निदर्शनानि सुप्रतीतानि इति न कथ्यन्ते। गतं मिथ्यात्वद्वारम् १ ॥ २६९४ ॥
अधुना शोधिद्वारं सागारिकद्वारं चाहआवण्णमणावण्णे, सोहिं न वियंति ऊणमहियं वा । दारं २। जे य वसहीइ दोसा, परिहरंति न ते अयाणंतो ॥ २६९५॥ दारं ३।
अकृतश्रुता आलोचिते परेण एष प्रायश्चित्तप्राप्तो न वेति न जानन्ति, अजानन्तश्चापन्नेऽनापन्ने वा प्रायश्चित्तं शोधिं नैव ददति यदि वा ऊनामधिकां वा ददति । गतं शोधिद्वारम् २ अधुना सागारिकद्वारमाह-ये च वसतौ दोषास्तानजाननकृतश्रुतो न परिहरति ३ ॥ २६९५ ॥ १. सागभिक्खू - पु. प्रे. । सावभिक्खू - ला. ॥
गाथा २६९४-२७०१
अगीतार्थनिश्रायां दोषाः
११३० (A)
For Private And Personal Use Only