SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् | षष्ठ उद्देशकः ११२८ (A) कल्पते गणिनो गणावच्छे दिनो वासो बहिरेकस्यैकाकिन इति श्रुत्वा मा अतिप्रसङ्गेनाऽकृतश्रुता अपि विष्वक् वसेयुस्ततस्तेषां विष्वक् वासप्रतिषेधार्थमिदं सूत्रमित्येष सूत्रसम्बन्धः ॥ २६८८ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या - से शब्दोऽथशब्दार्थः, ग्रामे वा नगरे वा यावत्कारणात् खेडंसि वा इत्यादिपरिग्रहः, राजधान्यां वा, एगवगडाए एको वगड: परिक्षेपो यस्याः सा एकवगडा, तस्यां तथा एकस्मिन् प्रदेशे निष्क्रमणप्रवेशो यस्याः सा एकनिष्क मणप्रवेशा, तस्यां न कल्पते बहूनामकृतश्रुतानाम् अगीतार्थानामित्यर्थः, एकत एकस्यां वसतौ वस्तुम्, अस्ति चात्र एतेषां मध्ये आचारप्रकल्पधरस्तर्हि नास्त्यमीषां कश्चित् छेदः परिहारो वा वाशब्दादन्यदपि प्रायश्चित्तम्। अथ नास्ति कश्चिदत्र एतेषां मध्ये आचारप्रकल्पधरस्तर्हि एतेषामन्तरा तस्मात् स्थानादिप्रतिक्रमणलक्षणात् छेदः परिहारो वा। एष सूत्रसक्षेपार्थः । अधुना भाष्यविस्तर: एगम्मि वी असंते, ण कप्पती कप्पती य संतम्मि । उउबद्धे वासासु य, गीयत्थे देसिए चेव ॥ २६८९॥ . गाथा २६८९-२६९३ गीतार्थनिश्रां विना न स्थेयम् ११२८ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy