SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११०२ (A) ददध्वमिति । एवमकोविदानां सहायानां भावे प्रलम्बविकरणनिमित्तमाचार्यो गच्छति । एवमेव कर्कशेऽपि क्षेत्रे भिक्षार्थं गमनमाचार्यस्य भवति, तत्राप्यसंस्तरणे अकोविदसहायभावे प्रलम्बविकरणाय वा गच्छतीति । तथा असतित्ति नाम सहायका न सन्ति ततः स्वयमेव भिक्षामटति ॥२६०२॥ बहुया तत्थ अतरंता, अहव गिलाणस्स सो परं लहति । दारं ४। एमेव य आदेशे, सेसेसु विभासबुद्धीए ॥२६०३॥ दारं ५। बहवस्तत्र गच्छे अतरन्तो ग्लानास्ततः सर्वेषां गच्छसाधवः प्रायोग्यमुत्पादयितुमशक्ताः, अथवा ग्लानस्य परं प्रायोग्यमन्यो न लभते किन्तु स एवाचार्यः,ततः स हिण्डते, एवमेवादेशेषु प्राघूर्णकेषु शेषेषु च बालवृद्धाऽसहेषु विभाषा विविधं भाषणं स्वबुद्ध्या कर्त्तव्यं, तच्चैवं यद्यादेशादयो बहवः [ततश्च]सर्वेषां साधवः कर्तुं न शक्नुवन्ति यदि वा स एवादेशादिप्रायोग्यं लभते नान्यः कोऽपि, ततः स हिण्डते ॥ २६०३ ॥ गाथा २६०३-२६०८ आचार्यस्य भिक्षागमनकारणानि ११०२ (A) सम्प्रति 'संथरणमाणे भइतो' इति व्याख्यानयति For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy