________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५३८ (B)
बितिए निव्विस एगो, निविढे तेण निव्विसे इयरो। एगतरम्मि अगीते, दोसु य सगणेयरे सोही ॥ १०१४ ॥
द्वितीये सूत्रे द्वयोरपि गीतार्थयोरन्यतरद् अकृत्यस्थानमापन्नयोरेकः निर्विशति परि- | हारतपः प्रतिपद्यते, द्वितीयः कल्पस्थितोऽनुपारिहारिकश्च, भवतीति वाक्यशेषः। ततस्तेन निर्विष्टे परिहारतपसि कृते इतरः द्वितीयो निर्विशति कृतपरिहारतपःकर्मा तु तस्य कल्पस्थितोऽनुपारिहारिकश्चोपजायते। यदि पुनरेकतर: अगीत: अगीतार्थो भवति ततः शोधिः शुद्धं तपः प्रायश्चित्तदानम्। अथ द्वावप्यगीतार्थी ततस्तयोर्द्वयोरप्यगीतार्थयोः सतोः प्रायश्चित्तस्थानापत्तौ स्वगणे इतरस्मिन् परगणे वा गीतार्थानां मिलित्वा ताभ्यां शोधिः शुद्धं तपः प्रतिपद्यते, अगीतार्थत्वेन परिहारतपोयोग्यताया अभावात् ॥१०१४॥
सूत्रम्- बहवे साहम्मिया एगतो विहरंति, एगे तत्थ अण्णयरं अकिच्चट्ठाणं पडिसेवित्ता आलोएज्जा, ठवणिजं ठवइत्ता करणिजं वेयावडियं ॥३॥
'बहवे साहम्मिया एगओ, विहरंति' इत्यादि, बहवः साधर्मिकाः एकतः एकत्र
सूत्र २-३-४
गाथा १०१४-१०१६ प्रायश्चित्तस्वरूपम्
५३८ (B)
For Private and Personal Use Only