SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः www.kobatirth.org नाम प्रागुक्तकारणवशाद् विहृतौ तौ द्वावपि समकं युगपद् भिक्षाग्रहणं कुरुत:, समकं भिक्षानिमित्तं हिण्डेते इत्यर्थः । एवं समकमेव शेषप्रयोजननिमित्तमपि निष्क्रामतः व्रजतः । समकमेव च प्रविशतः गत्वा प्रत्यागच्छतः तथा समकमेवानुज्ञापनं कुरुतः । किमुक्तं भवति ? समकमेव नैषेधिक्यादिकं शय्यातरादिकमनुज्ञापयतः तत एकाकिनः सतो ये प्रागुक्ता दोषास्ते प्रायो न सम्भवन्ति । पर आह यद्येवं समकभिक्षाग्रहणादिकरणं ततः ५३६ (B) कथमेकः प्रायश्चित्तस्थानमापन्नः ? एको वा कथं नापन्नः ? इति ॥१००९॥ सूरिराह - ܀܀܀܀܀ एगस्स खमण भाणस्स धोवणं बहि य इंदियत्थेहिं । एएहिं कारणेहिं, आवन्नो वा अणावन्नो ॥ १०१० ॥ Acharya Shri Kailassagarsuri Gyanmandir एकस्य क्षपणं अभक्तार्थोऽभवेत् एकेन तु क्षपणं न कृतम् । तत्र यदि क्षपणकारी शक्नोति ततो द्वावपि समकं भिक्षानिमित्तं हिण्डेते । अथ क्षपणकृद् न शक्नोति तत एको भिक्षार्थं गच्छति, एकस्तूपाश्रय एव तिष्ठति । एवं द्वयोरप्येकाकित्वसम्भवः । तथा भाणस्स धोवणंति अथवा एको भाजनस्य धावनार्थमुपाश्रयाद् बहिर्विनिर्गतः, एकस्तूपाश्रय For Private and Personal Use Only गाथा १००९-१०१३ अध्यात्मस्य प्रामाण्यम् ५३६ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy