SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५२२ (B) ܀܀܀܀܀܀܀ ***** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्मिको न ज्ञानतः, समानचारित्री एक: केवली एकश्छद्मस्थः २ । ज्ञानतोऽपि चारित्रतोऽपि समानज्ञान - चारित्री साधुः ३ । न ज्ञानतो नापि चारित्रतः शून्यः ४ । तथा ज्ञानतो नाभिग्रहतः, समानज्ञानो विचित्राभिग्रहः श्रावकादिः १ । अभिग्रहतो न ज्ञानतः, समानाभिग्रहो विचित्रज्ञानी साधुस्तीर्थकर ः प्रत्येकबुद्धो वा २ । ज्ञानतोऽप्यभिग्रहतोऽपि समानज्ञानाभिग्रही साध्वादिः ३ । न ज्ञानतो नाप्यभिग्रहतः, एष शून्यः ४ । तथा ज्ञानतो न भावनातः, समानज्ञानो विचित्र भावनाकः श्रावकादिः १ । भावनातो न ज्ञानतः, समानभावनाको विचित्रज्ञानी श्रावकादिः २ । ज्ञानतोपि भावनातोऽपि समानज्ञानभावनाक: श्रावकादिः ३ । न ज्ञानतो नापि भावनातः, एष शून्यः ४ । उक्ता ज्ञानेन सह चारित्रादिषु भङ्गाः । सम्प्रति ज्ञानपदं विमुच्य चारित्रपदं गृहीत्वा तेन सहाभिग्रह भावनयोर्भङ्गा उच्यन्तेचरणतः साधर्मिको नाभिग्रहतः, समानचरणो विचित्राभिग्रहः साधुः १ । अभिग्रहत: साधर्मिको न चरणतः, श्रावकादिः २ । चरणतोऽपि अभिग्रहतोऽपि साधुः ३ । न चरणो नाप्यभिग्रहतः, एष शून्यः ४ । तथा चरणतो न भावनातः, विचित्रभावनाकः साधुः १ । भावनातो न चरणतः, श्रावकः समानभावनाकः साधुर्वा विसदृशचरणः २ । चरणतोऽपि भावनातोऽपि समानचरण - भावनाकः साधुः ३ । न चरणतो नापि भावनातः, एष शून्यः ४ । For Private and Personal Use Only गाथा ९८० - ९८१ विहारशब्दस्य निक्षेपाः ५२२ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy