SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ७१० (A) तत्र द्रव्यत आहारोपध्यादीनाम्, भावतः सूत्रार्थयोः। यो द्विविधेऽपि सङ्ग्रहे कुशलः सङ्ग्रहकुशल: ५। उप- सामीप्येन ग्रहणमुपग्रहः, सोऽपि द्विधा-द्रव्यतो भावतश्च। तत्र येषामाचार्य उपाध्यायो वा न विद्यते तान् आत्मसमीपे समानीय तेषामित्वरां दिशं बद्ध्वा तावद्धारयति यावन्निष्पाद्यन्ते, एष द्रव्यत उपग्रहः, "ग्रही उपादाने" इति वचनात्। यः पुनरविशेषेण सर्वेषामुपकारे वर्तते स भावत उपग्रहः ६। अक्षताचार:- परिपूर्णाचारः परिपूर्णाचारता च चारित्रे सति भवति, "चारित्रवतो नियमतः शेषाश्चत्वारोऽप्याचाराः, शेषाचारवतश्चारित्रं स्याद् वा न वा" [चूर्णी] इति वचनात्, ततश्चारित्रवानित्युक्तं द्रष्टव्यम्। नन्वेषोऽप्यर्थः आचारकुशलः इत्यनेनोपात्त इति किमर्थमस्योपादानम् ? उच्यते- चारित्रं खलु प्रधानं मोक्षाङ्गम, तदपि कण्ठतो नोक्तमिति कदाशङ्काव्युदासार्थमित्यदोषः। तथा अशबलः यस्य सिताऽसितवर्णोपेतबलीवर्द इव कर्बुर आचारो विनय-शिक्षा-भाषागोचरादिकोऽसावशबलाचारः ८। तथा अभिन्नः-न केनचिदप्यतीचारविशेषेण खण्डित | आचार:- ज्ञानाचारादिको यस्य सोऽभिन्नाचारः ९। तथा असङ्क्लिष्टः इहपरलोकाशंसारूपसङ्क्लेशविप्रमुक्त आचारो यस्य सोऽसंक्लिष्टाचारः १०। तथा बहु श्रुतं- सूत्रं गाथा १४६०-१४६२ पदग्रहणयोग्यता ७१० (A) १. यस्या सावभिन्ना' वा. पु. मु.॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy