SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५१९ (A) चारित्रिण इत्यादि। दव्वादी उ अभिग्गहत्ति अभिग्रहतः साधर्मिको द्रव्यादौ वेदितव्यः, तद्यथा-द्रव्याऽभिग्रही द्रव्याभिग्रहिणः। एवं क्षेत्र-काल-भावेष्वपि भाव्यम्। तुशब्द: अनुक्तसमुच्चयार्थः, तेन षष्ठादिक्षपणाभिग्रही षष्ठादिक्षपणाभिग्रहिणः इत्याद्यपि द्रष्टव्यम्। भावनातः साधर्मिकोऽनित्यत्वादौ, यथा एकोऽप्यनित्यत्वभावनां भावयत्यपरोऽप्यनित्यत्वभावनामिति अनित्यत्वभावनासाधर्मिकः, एवं शेषास्वपि भावनासु द्रष्टव्यम्॥ ९७६ ॥ तदेवमुक्तः साधर्मिकस्य द्वादशको निक्षेपः। सम्प्रति यदुक्तं 'लिङ्गे भवन्ति भङ्गाश्चत्वारः' इति तदेतद् व्याचिख्यासुराह साहम्मिएहिं कहिएहिं लिंगादी होइ चउभंगो। नाम ठवणा दविए, भावविहारे य चत्तारि ॥ ९७७ ॥ साधर्मिकेषु कथितेषु सत्सु, गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात्, लिङ्गादौ | प्रवचनादिभिः सह भवति प्रत्येकं चतुर्भङ्गी, गाथायां पुंस्त्वमाषत्वात्। विहारे च ये | चत्वारो भेदाः प्रागुक्तास्ते इमे, तद्यथा- नामविहारः स्थापनाविहारो द्रव्यविहारो भाव- * गाथा ९७४-९७८ साधर्मिकस्य निक्षेपाः ५१९ (A) १. "पि वाच्यम् - वा. पु. मु. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy