________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय
उद्देशकः ६६८ (A)
सचित्तादिसमूहः सचित्तसमूहो अचित्तसमूहो मिश्रसमूहश्च द्रव्यगणः । तत्र सचित्तसमूहो यथा मल्लगणः, तथा पुरे भवः पौरस्तस्य गणः पौरगणः । अचित्तसमूहो यथा शस्त्रगणः । मिश्रसमूहो यथा सुवर्णालङ्कारभूषितो मल्लगणः पौरगणो वा। कुप्रावचने द्रव्यगणो यथा चरकादिः चरकादिगणः। चरकः परिव्राजकः, आदिशब्दात् पाण्डुराङ्गादिपरिग्रहः । लोकोत्तरिको द्रव्यगणः अवसन्नाऽगीतार्थानां समूहः। किमुक्तं भवति? पार्श्वस्थादिगणः, | यदि वा प्रवचनविडम्बक: कुमतप्ररूपकगणः अथवा अगीतार्थगणो लोकोत्तरिको द्रव्यगण इति ॥ १३४९॥
भावगणो द्विधा-आगमतो नोआगमतश्च। तत्राऽऽगमतो ज्ञाता तत्र चोपयुक्तः । नोआगमतो आह___ गीयत्थउज्जुयाणं, गीयपुरोगामिणं वऽगीयाणं।
एसो खलु भावगणो, नाणादितिगं च जत्थत्थि ॥ १३५० ॥
गीतार्थानामुद्युक्तानां शक्त्यनुपगृहनेन संयमे प्रवर्तमानानामथवा अगीतानामपि अगीतार्थानामपि, अपिशब्दो लुप्तोऽत्र द्रष्टव्यः, गीतपुरोगामिनां पुरोगामिगीतार्थनिश्रितानां
गाथा १३५०-१३५५
भावगण स्वरूपम्
६६८ (A)
For Private and Personal Use Only