SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशः ६६५ (A) ܀܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कश्चित्कल्पनाप्रकारः ? अस्तीति ब्रूमस्तथा चाह नोकारो खलु देसं, पडिसेहयती कयाइ कप्पेज्जा । ओसन्नम्म उ थेरे, सो चेव परिच्छओ तस्स ॥ १३४३ ॥ सूत्र १ " एवं से नो कप्पइ" इत्यत्र नोशब्दो देशवचनत्वात् देशं प्रतिषेधयति । तेन कदाचित्कल्पेतापि, कदा कल्पते ? इति चेदत आह- अवसन्ने आचार्ये । इयमत्र भावनायद्याचार्यो भावतः सूत्राद्युपेतस्तप: संयमोद्यतस्ततस्तस्मिन् द्रव्यतोऽपरिच्छदे न कल्पते । अथ चेदवसन्नस्तर्हि तस्मिन् द्रव्यतोऽपरिच्छदे सपरिच्छदे वा कल्पते । खलुशब्दः विशेषणार्थः । स चैतद्विशिनष्टि - यो भावतः सपरिच्छदस्तस्य कल्पते, न शेषस्य । सपरिच्छदे चावसन्ने आचार्ये गणं धारयति शिष्ये य आचार्यस्य परिच्छदः परिवारः स एव तस्य शिष्यस्य १३४०-१३४५ 10 भवति व्यवहारतस्तस्याऽऽभवनात् इतरस्य तु न किमप्याभवति, शिथिलत्वाद् । इह परिच्छद 10 2 गणधारणविषया चतुर्भङ्गिका । तद्यथा - द्रव्यतोऽपरिच्छन्नो भावतश्चापरिछन्नः १, द्रव्यतोऽपरिच्छन्नो भावतः परिच्छन्नः २, द्रव्यतः सपरिच्छदो भावतोऽपरिच्छदः ३ द्रव्यत सपरिच्छदो भावतश्च सपरिच्छदः ४ । तत्र चतुर्थभङ्गवर्ती शुद्धः, शेषास्त्वशुद्धाः, एष सूत्रार्थः ॥ १३४३ ॥ गाथा सामाचारी ६६५ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy