SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६६२ (B) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ समकं भुञ्जाते। एतावता 'सम'त्ति सम्भावितम् ॥ १३३८॥ एतदेव व्याचिख्यासुराह___पासं उवरि व्व गहियं, कालस्स दवस्स वा वि असतीए। पुव्वं भोत्तुं थेरा, दलंति समगं च भुंजंति ॥ १३३९ ॥ द्रवस्य पानीयस्य असति अभावे एकस्मिन् पार्श्व उपरि वा यद गहीतमाचार्ययोग्यं तत्पूर्वं स्थविरा भुक्त्वा पश्चाच्छेषं पारिहारिकाय ददति। कालस्य द्वयोः क्रमेण भोजनकालस्याऽसति समकं वा एककालं तौ भुञ्जाते। सम्प्रति सण्डासोपलक्षितशनकमांसदृष्टान्तभावना क्रियते-यथा कोऽप्यलर्केण शुना खादितः, स यदि तस्यैव शुनकस्य मांसं खादति, ततः प्रगुणीभवति, इत्यनेन प्रकारेण शुनकमांसं खादितुकामः ‘कथमहं सर्वास्पृश्यं शुनकमांसं स्पृशामि? इति सन्दंशकेन गृहीत्वा मुखे प्रक्षिपति, एवं खाद्यते । स च पारिहारिकोऽपि तत् कारणत एकस्मिन् पार्श्वे उपरि वा गृहीतं स्थविरसत्कं जुगुप्समान इव तत् परिहरन् आत्मीयं समुद्दिशति ॥१३३९॥ ॥ इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां द्वितीयोद्देशकः समाप्तः ॥ ॥ द्वितीयोद्देशके ग्रंथाग्रं ३०१३ ॥ ॥ एवं सर्वसङ्ख्यया ग्रंथाग्रं १३८९१ ॥ गाथा १३३९ पारिहारिकस्य पात्रे भोजनविधिः ६६२ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy