SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री ४ व्यवहार सूत्रम् द्वितीय उद्देशकः ६६१ (B)| किमर्थमारब्धम् ? सूत्रोक्तस्यार्थस्याऽसम्भवात्। आचार्यः प्राह-न सूत्रोक्तार्थासम्भवः, कारणतः सूत्रद्वयस्य पतितत्वाद् ॥१३३७ ॥ कानि कारणानि यद्वशादिदं सूत्रद्वयं पतितम्? अत आह दुल्लहदवं पडुच्च व, तवखेयवियं समं व सति काले । चोयग! कुव्वंति तयं, जं वुत्तमिहेव सुत्तम्मि ॥ १३३८ ॥ हे चोदक दुर्लभं द्रवं पानीयं प्रतीत्य, यदि वा तपसा खेदितं पारिहारिकम्, अथवा समकम् एककालं सर्वगृहेषु सति भिक्षाकाले आचार्य-पारिहारिकौ तत् कुर्वतो यदुक्तमिहैव सूत्रे। तथाहि- स पारिहारिक: तपसा खेदितः सन् आत्मनः स्थविरस्य चार्थाय द्वौ वारौ भिक्षामटितुमसमर्थः ततस्तं पारिहारिकं 'स्वकीयेन पतद्ग्रहेणात्मनो अर्थाय हिण्डित्वा पश्चात् स्थविराणामर्थाय स्थविरपतद्ग्रहेण हिण्डिष्ये' इति बुद्ध्या सम्प्रस्थितं स्थविरा असमर्थं ज्ञात्वा ब्रुवते 'अस्माकमपि योग्यमात्मीयेन पतद्ग्रहेण प्रतिगृह्णीयाः' तत उपरि एकस्मिन् वा पार्श्वे स्थविरयोग्यं गृह्णाति। गृहीते च तथा तस्मिन् स्थविरस्ततः समाकृष्य समाकृष्य भुङ्क्ते, एषा स्थविरस्य सामाचारी। पारिहारिकस्य पुनरियं-तं पारिहरिकं 'स्थविराणां पतद्ग्रहं गृहीत्वा स्थविरस्यार्थाय हिण्डित्वा पश्चाच्चात्मनो अर्थाय हिण्डिष्ये' इति बुद्ध्या सम्प्रस्थितं दृष्ट्वा गृहादिकं परिमितं ज्ञात्वा स्थविरा भाषन्ते 'आत्मनोऽप्यर्थायास्मदीय एव पात्रे प्रतिगृह्णीयाः' एवं सन्दिष्ट: सूत्र ३० गाथा १३३५-१३३८ पारिहारिकस्य पात्रे भोजनविधिः ६६१ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy