SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६४० (B) कुलेनैकपाक्षिक: श्रुतेन च १ कुलेनैकपाक्षिको न श्रुतेन २, कुलेन नैकपाक्षिकः किन्तु श्रुतेन ३, न कुलेन नापि श्रुतेन ४। एवं गणेन सङ्घन च प्रत्येकं भङ्गचतुष्टयं भावनीयं, तत्र प्रव्रज्यां कुलं गणं चाधिकृत्य यः प्रथमभङ्गवर्ती स इत्वरो यावत्कथिको वा स्थापनीयः, तदभावे तृतीयभङ्गवर्ती, यदि पुनर्द्वितीयभङ्गवर्तिनं चतुर्थर्भङ्गवर्तिनं वा स्थापयति तदा तस्य स्थापयितुः प्रायश्चित्तं चत्वारो गुरुमासाः, न केवलमेतत् प्रायश्चित्तं किन्त्वाज्ञादयोऽपि दोषाः ॥ १२८६॥ तथा चाह आणाइणो य दोसा, विराहणा होइमेहिं ठाणेहिं । संकिय अभिणवगहणे, तस्स व दीहेण कालेण ॥ १२८७॥ गाथा १२८६-१२९० पदस्थापने भङ्गाः आज्ञादय आज्ञा-ऽनवस्थामिथ्यात्व-विराधनारूपाः चशब्दोऽनुक्तप्रायश्चित्तसमुच्चये। तच्च प्रायश्चित्तं प्रागेवोपदर्शितं तथा विराधना गच्छस्य भेदो भवति, आभ्यां वक्ष्यमाणाभ्यां ६४० (B) १. अत्र (१२८७ गाथास्थाने) चूर्णी अण्णह गाहा. इत्यवतरणं दृश्यते ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy