SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६३८ (A) . एक: समानः पक्ष एकपक्षः, सोऽस्यास्तीति एकपाक्षिकः। प्रव्रज्यया श्रुतेन च स्ववर्गस्य भिक्षोः कल्पते इत्वरां कियत्कालभाविनीम्, इत्वरग्रहणमुपलक्षणं, यावत्कथिका च दिशमाचार्यत्वमुपाध्यायत्वं वा अनुदिशं वा आचार्योपाध्यायपदद्वितीयस्थानवर्तित्वं वाशब्दौ विकल्पार्थों, उद्देष्टुं वा तस्य वा स्वयं धारयितुं, यथा वा तस्य गणस्य प्रीतिकं स्यात् तथा दिशमनुदिशं वा उद्दिशेत्। किमुक्तं भवति? भिन्नपाक्षिकमप्यपवादपदेन स्वगणप्रीत्याऽऽचार्यादिपदाध्यारोपितं कुर्यादिति संक्षेपार्थः ॥ व्यासार्थं तु भाष्यकृद्विवक्षुः प्रथमतः पूर्वसूत्रेण सह सम्बन्धमाह निक्खित्तम्मि उ लिंगे, मूलं सातिजणे य पहाणादी। दिण्णेसु य होइ दिसा, दुविहा वि वएसु संबंधो ॥ १२८१ ॥ यदि लिङ्गं रजोहरणं निक्षिप्त परित्यक्तं भवति ततस्तस्मिन्निक्षिप्ते लिङ्गे, यदि वा || लिङ्गापरित्यागेऽपि स्नानादेः साइज्जणे अनुमनने मूलं नाम प्रायश्चित्तं भवति। तस्मिंश्च | सामाचारी मूलप्रायश्चित्तदानेन समस्तपर्यायोच्छेदतः प्रदत्तेषु व्रतेषु द्विविधाप्याचार्यत्वोपाध्यायत्व- |* ६३८ (A) स्वरूपा दिग् दीयते। ततोऽवधावनसूत्रान्तरं दिक्सूत्रोपन्यासः एष पूर्वसूत्रेण सहास्य सूत्रस्य . गाथा १२८१-१२८५ पदस्थापन For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy