SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६१७ (B) आलोइयम्मि तिउणे, कजं से सीसए तयं सव्वं। पडिसिद्धम्मि य इयरो, भणेति बिइयंपि ते नत्थि॥ १२२७ ॥ अभ्याख्यातः साधुरागतः सन् आलोचयति प्रथमालिकादिकं यावद् न जानामि द्वितीयः सङ्घाटक: क्वापि गत इति केवलोऽहमागतोऽस्मि। तत आचार्या ब्रुवते- | सम्यगालोचय, ततः स स्मृत्वा द्वितीयमपि वारं तदेवाऽऽलोचयति, ततस्तृतीयमपि वारं स |: वक्तव्य:- सम्यगालोचय। ततस्तदनन्तरं सविशेषसावधानो भूत्वा स्मृत्वा आलोचयति यावत्तस्मिन्नपि तृतीये वारे तदेवालोचितं ततस्त्रिगुणे त्रि:कृत्वे आलोचिते यदि न प्रतिसेवितमित्यालोचयति। ततो येन कारणेन त्रीन् वारानालोचापितस्तत्कार्यं कारणं सर्वं से तस्य शिष्यते कथ्यते, यथा स एष तव सङ्घाटकस्त्वया सह किञ्चिन्मानं हिण्डित्वा || १२२३-१२२७ समागतो ब्रूते-ज्येष्ठार्येण आर्यागृहे वृक्षविषमे वा क्वचित्प्रदेशे कृतमकार्यं तत्संसर्गतो मयापि || अभ्याख्याने संसृष्टकल्प उपजीवित इति ततोऽभ्याख्यातः साधुर्वदति न मया प्रतिसेवितमेवं तेन प्रतिषिद्धे प्रतिसेविते इतरोऽभ्याख्यानप्रदाता भणति-अहो ज्येष्ठार्य! तव द्वितीयमपि व्रतं ६१७ (B) नास्ति। आस्तां चतुर्थमित्यपि शब्दार्थः ॥ १२२७॥ गाथा उपाय For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy