________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री । व्यवहार
सूत्रम् द्वितीय
उद्देशकः
५८० (A)
___ अथवेति प्रकारान्तरोपदर्शने, भय-शोकयुक्तो वा चिन्तार्दितो वा एतेन क्षिप्तचित्त उक्तः। अतिहर्षितो वा अनेन दीप्तचित्तोऽभिहितः। यक्षैः परवशहृदयतया आविश्यते आलिङ्ग्यते, अतः क्षिप्तचित्तसूत्रानन्तरं यक्षाविष्टसूत्रमित्ययमन्यो भवति सम्बन्धः ॥११२४॥
अनेनैव सम्बन्धेनायातस्यास्य व्याख्या। सा च प्राग्वत्। सम्प्रति यतो यक्षाविष्टो भवति तत्प्रतिपादनार्थमाह
पुव्वभवियवेरेणं, अहवा रागेण रंगितो संतो। एएहिं जक्खविट्ठो, सेट्ठी सज्झिलगवेसादी ॥ ११२५ ॥[बृ.क.भा. ६२५८]
पूर्वभविकेन पूर्वभवभाविना वैरेण अथवा रागेण रञ्जितः सन् यक्षैराविश्यते। एताभ्यां द्वेष-रागाभ्यां यक्षाविष्टो भवति यथा श्रेष्ठी द्वेष्यभार्यया सज्झिलगत्ति लघुभ्राता ज्येष्ठभार्यया [कौटुम्बिक:] भृतिकया द्वेष्यादिभिरित्यत्रादिशब्दाद् ज्येष्ठभार्या- भृतिकयोः परिग्रहः ॥ ११२५ ॥ तत्र श्रेष्ठ्याधुदाहरणमाह१. चित्तादितो - पुण्य वि. प्रे. ॥
गाथा ११२५-११२९
यक्षाविष्ट प्ररूपणा
५८० (A)
For Private and Personal Use Only