SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५६३ (A) लोकतो जयप्रवादोऽभवत्। एवमुक्ते स चरको धिक्कृतेन धिक्कारणेन लज्जाप्यते लज्जां ग्राह्यते, लज्जां च ग्राहितः सन् सोऽपसार्यते, ततः स क्षिप्तो भण्यते- किमिति त्वमपमानं | गृहीतवान्?, वादे हि ननु त्वया पराजितः, तदा च त्वत्समक्षमेवैष धिक्कारं ग्राहित इति। एवं यतनायां क्रियमाणायां यदि स क्षुल्लकः प्रगुणीभवति ततः सुन्दरम् ॥ १०७२॥ तहवि य अठायमाणे, सारक्खमरक्खणे य चउगुरुगा। आणाइणो य दोसा, जं सेवति जं च पाविहिती ॥ १०७४ ॥ [बृ.क.भा. ६२०९] तथापि च एवं यतनायामपि च क्रियमाणायामतिष्ठति अनिवर्तमाने क्षिप्तचित्तत्वे संरक्षणं वक्ष्यमाणयतनया कर्त्तव्यम, अरक्षणे प्रायश्चित्तं चत्वारो गुरुका गुरुमासाः। तथा आज्ञादय आज्ञा-ऽनवस्था-मिथ्यात्व-विराधना दोषाः। तथा असंरक्ष्यमाणो यत्सेवते षड्जीवनिकायविराधनादिकं, यं च प्राप्स्यत्यनर्थं तन्निमित्तं च प्रायश्चित्तम्॥१०७४ ॥ गाथा १०७२-१०७६ क्षिप्तचित्ते यतना ५६३ (A) अथ किं सेवते? किं वा प्राप्स्यति? तन्निरूपणार्थमाह For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy