SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५६२ (A) इह "पदैकदेशे पदसमुदायोपचारात्" पाला इत्युक्ते हस्तिपालाः सिंहपाला वा द्रष्टव्याः, तेऽपि पुरा पूर्वं गमिताः प्रतिबोधिताः कर्त्तव्याः । यथा-अस्माकमेकः क्षुल्लको युष्मदीयं सिंहं हस्तिनं वा दृष्ट्वा क्षोभमुपागतः, ततः स यथा क्षोभं मुञ्चति तथा कर्तव्यम्। एवं तेषु प्रतिबोधितेषु स क्षिप्तचित्तीभूतस्तेषामन्तिके नीयते, नीत्वा च तेषां मध्ये य: क्षुल्लकादपि लघुतरः तेन सिंहः कर्णे धार्यते, हस्ती वा तेन धार्यते, ततः स क्षिप्तचित्तः प्रोच्यते- त्वत्तोऽपि यः क्षुल्लकतर: अतिशयेन लघुस्तेन एष सिंहः कर्णे गृहीतः । अथवा स हस्ती अनेन धाटितः,त्वं तु बिभेषि, किं त्वमेतस्मादपि भीरुर्जातः? धाष्टर्यमवलम्ब्यताम् इति ॥१०७१॥ सत्थऽग्गिं थंभेउं, पणोल्लणं णस्सए व सो हत्थी। थेरा चम्मविकड्ढण, अलायचक्कं व दोसुं तु ॥ १०७२॥ [बृ.क.भा.६२०७] यदि शस्त्रं यदि वा अग्निं दृष्ट्वा क्षिप्तोऽभवत् ततः शस्त्रमग्निं च विद्यया स्तम्भित्वा | तस्य पादाभ्यां प्रणोदनं कर्तव्यं भणितव्यं च तं प्रति 'एषोऽस्माभिरग्निः शस्त्रं च पादाभ्यां गाथा १०७२-१०७६ क्षिप्तचित्ते । यतना ५६२ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy