________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका १०३ (A)
अत एतेन कारणेनाचार्यादयस्त्रिविधा भवन्ति, सूत्रे भवे इति बहुत्वेऽप्येकवचनं प्राकृतत्वात, प्राकृते हि वचनव्यत्ययोपि क्वचिद् भवति इति ॥१७०॥ एनामेव गाथां व्याख्यानयति
कज्जाऽकज्ज जयाऽजय, अविजाणंतो अगीतो जं सेवे । सो होइ तस्स दप्पो, गीये दप्पाऽजए दोसा ॥ १७१ ॥
कार्यं नाम प्रयोजनं, यच्च प्रयोजनं तद् अधिकृतप्रवृत्तेः प्रयोजकत्वात् कारणम्, अत एवान्यत्रोक्तं- 'कारणं ति वा कज्जं ति वा एगटुं', [व्यवहारचूर्णी ] ततोऽयमर्थः
अगीतोऽगीतार्थः कारणं न जानाति, यस्मिन्प्राप्ते प्रतिसेवना क्रियते । अकारणं न जानाति * यस्मिन् प्रतिसेवना न क्रियते, तथा कारणे अकारणे वा प्राप्ते सेवनं कुर्वन् यतनामयतनां
वा न जानाति। एतान्यजानानो यः सेवते प्रतिसेवते, [स] तस्य दो भवति, सा तस्य दपिका प्रतिसेवना भवतीति भावः। गीतार्थः पुनः सर्वाण्यप्येतानि जानाति, ततः कारणे प्रतिसेवते, नाऽकारणे; कारणेऽपि यतनया, न पुनरयतनया, ततः स शुद्ध एव, न | प्रायश्चित्तविषयः। अगीतार्थस्य त्वज्ञानतया दर्पण प्रतिसेवमानस्य प्रायश्चित्तम्। यदि पुनः गीतार्थोऽपि दर्पण प्रतिसेवते, कारणेऽप्ययतनया वा तदा तुल्यमगीतार्थेन समं तस्य
X
गाथा १६९-१७२ प्रायश्चित्तदानभेदे कारणानि
१०३ (A)
For Private And Personal Use Only