SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ९६ (B) प्रायश्चित्तं, 'बिइए मूलं व छेदो छग्गुरुगा' (गा. १६५) इति वचनात्। अकृतकरणे तु तस्मिन्नेवोपाध्याये मूलमापन्नेऽपि प्रायश्चित्तं षड्गुरुकाः गुरवः षण्मासाः। अकृतकरणतया छेदप्रायश्चित्तस्याप्यनर्हत्वात् । इति एवममुना प्रकारेण अड्डोक्कंतीए इति इह एकैकस्मिन्नाचार्यादौ स्थाने कृतकरणाऽकृतकरणभेदतो द्वे द्वे प्रायश्चित्ते, तयोः शुद्धयोरेकमाद्यं प्रायश्चित्तमपक्रामति, न तूत्तरस्थानेऽनुवर्तते, द्वितीयं चोत्तरस्थानेऽनुवर्तते, एकं च द्वयोरर्द्धमित्यत्रा पक्रान्त्या ज्ञेयं प्रायश्चित्तदानम् ॥१६७ ॥ इदमिति संक्षिप्तमुक्तमिति विनेयजनानु-ग्रहाय यन्त्रककल्पनया विशेषतो भाव्यते। तत्र यन्त्रकविधानमिदं- तिर्यग् द्वादशगृहकानि क्रियन्ते, अधोमुखं च विंशतिगृहाणि, एवं च द्वादशगृहात्मिका विंशतिगृहपङ्क्तयो जाताः ।तत्र विंशतितमायां पङ्क्तौ दक्षिणतो अन्तिमे ये द्वे गृहके ते मुक्त्वा तस्या अधस्ताद् दशगृहात्मिका एकविंशतितमा पङ्क्तिः स्थाप्या। तस्यामप्येक-विंशतितमायां पङ्क्तौ ये द्वे : नामादिभेदाः मअन्तिमे गृहके ते मुक्त्वा अधस्तात् अष्टगृहात्मका द्वाविंशति-तमा पङ्क्तिः 'स्थाप्या। || ९६ (B) १. स्थापनीया त० वा. मो. पु. मु. ॥ गाथा १६३-१६७ व्यवहारस्य For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy