________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका
९४ (A)
www.kobatirth.org
योगा उद्व्यूढास्तत आयतकयोगार्हा अभवन्निति नियमतो अधिगताः कृतकरणा इति ॥१६२॥ तदेवं कृता पुरुषभेदमार्गणा, साम्प्रतममीषां प्रायश्चित्तदान-विधिर्वक्तव्यः । तत्र ये निरपेक्षा जिनकल्पिकादयस्ते यत् प्रायश्चित्तमापन्नास्तदेव तेभ्यो दीयते, न तद्विषया गुरुलाघवचिन्ता निरपेक्षत्वात् । सापेक्षाणां तु सापेक्षतयैव प्रायश्चित्तदानविधौ तद्विषया गुरुलाघवचिन्ता कर्त्तव्या । तत्र यानि प्रायश्चित्तानि दातव्यानि तानि संक्षेपतो गाथाद्वयेनाह
निव्विइए पुरिमड्ढे, एक्कासण अंबिले चउत्थे य ।
पणगं दस पण्णरसा, वीसा तह पण्णवीसा य ॥ १६३ ॥
मासो लहुओ गुरुगो, चउरो मासा हवंति लहु-गुरुगा । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ १६४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
निर्विकृतिकं विकृतिप्रत्याख्यानं, पुरिमड्डत्ति दिवसपूर्वार्द्धप्रत्याख्यानम्, एकासनाऽऽचाम्ल - चतुर्थानि प्रतीतानि । पणगंति रात्रिन्दिवानां पञ्चकं, 'लहुगुरुयं 'ति वक्ष्यमाणं
For Private And Personal Use Only
गाथा
१६३-१६७ व्यवहारस्य नामादिभेदाः
९४ (A)