SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ७५ (A) www.kobatirth.org चतुर्थे भने शुद्धः, विधिना प्रवृत्तेः । इहाऽऽद्यास्त्रयो भङ्गका मासलघुप्रायश्चित्तविषयाः प्रस्तावादुक्ता यावता वक्ष्यमाणेषु मासिकेषु प्रायश्चित्तेषु द्रष्टव्याः । यथा दण्डकग्रहणेऽभिहितं तथा दण्डकनिक्षेपेऽपि वक्तव्यम्, नवरं - निक्षेपेऽधस्ताद् भूमेरुपरि च दण्डशिरः सम्पर्कविषयभित्तिप्रदेशे प्रमार्जना कर्त्तव्या । तथा वसतेर्निर्गच्छन् यद्यावश्यकीं न करोति वसतौ प्रविशन् वा नैषेधिकीं तत आवश्यक्या अकरणे नैषिधिक्या अकरणे च प्रत्येकं प्रायश्चित्तं रात्रिंदिवपञ्चकम् । तथा गुरूणं च अप्पणामे इति, अत्र प्रणामग्रहणं हस्तोत्सेधादेरुपलक्षणं, ततोऽयमर्थः- अवश्यकरणीयप्रयोजनवशतः स्वोपाश्रयाद्वहिर्विनिर्गतो भूयः प्रतिश्रये प्रविशन् 'नमो खमासमणाणं' इति न ब्रूते, प्रणामं वा न करोति, नापि हस्तस्य क्षणिकत्वेपि हस्तोत्सेधं तदा प्रायश्चित्तं रात्रिंदिवपंचकम् ॥ १२५ ॥ वेंटियगह-निक्खेवे निड्डुहणे आयवाओ छायं च । थंडिल्लकण्हभोमे गामे राइंदिया पंच ॥ १२६ ॥ Acharya Shri Kailassagarsuri Gyanmandir संस्तारकवेण्टलिकाया ग्रहणे निक्षेपे च प्रत्येकं दण्डक इव सप्तभङ्गकं तत्रापि दण्डक इवाऽऽद्येषु त्रिषु भङ्गकेषु पश्चादानुपूर्व्या यथोत्तरं तपः कालविशेषितः प्रत्येकं लघुमासः, उत्तरेषु त्रिषु भङ्गकेषु प्रत्येकं रात्रिन्दिवपञ्चकं, सप्तमे तु भङ्गे शुद्धः, For Private And Personal Use Only गाथा १२४-१२६ कायोत्सर्गस्वरूपादि ७५ (A)
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy