SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ६९ (B) यदा भक्तार्थं पानार्थं वा भिक्षाचर्यया ग्रामान्तरं गत्वा मार्गगमनसमुत्थपरिश्रमजयाय विश्राम्यति। असति कालेत्ति अथवा असति भिक्षाकाले यावत् भिक्षावेला भवति तावत्प्रतीक्षितुकामः । पढमालियत्ति यदि वा क्षुधापीडितः सन् प्रथमालिकां कर्तुकामो यत्र शून्यगृहादिषु प्रविशति। वासत्ति अथवा तस्मिन्नन्यस्मिन् वा ग्रामे भिक्षामटतोऽन्तरा वर्षं पतितमारब्धं, ततः छन्नं किमपि स्थानं प्रविश्य तत्राऽऽसितुकामः। संखडीए वा इति सङ्खड्यां वा अप्रमाणायां ध्रुवं भूयान् लाभ इति ज्ञात्वा क्वचिदन्यत्र प्रतीक्षितुमिच्छुर्भवति तदा तस्य ऐर्यापथिकार्थ-ईर्यापथिकपापविशुद्ध्यर्थं गमनं प्रतिक्रामतो गमनविषयं प्रतिक्रमणं कुर्वतः कायोत्सर्गः प्रायश्चित्तं, स च कायोत्सर्गः पञ्चविंशत्युच्छ्वासप्रमाणः, 'उच्छ्वासाश्च पादसमा' इति पञ्चविंशतेश्चतुर्भिः भागे हृते षट् श्लोका एकपादाधिका लभ्यन्ते, ततश्चतुर्विंशतिस्तवः 'चंदेसु निम्मलयरा' इति पादपर्यन्तः कायोत्सर्गे चिन्तनीय इति भावः ॥ ११२ ॥ एमेव सेसएसु वि, होइ निसज्जाए अंतरे गमणं । आगमणं जं तत्तो, निरंतरगयागयं होइ ॥ ११३ ॥ १. चर्याया - पु. प्रे० ॥ गाथा १११-११३ विवेकाहव्युत्सर्गार्हप्रायश्चित्तादि ६९ (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy