SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहारसूत्रम् पीठिका ६७ (A) कृतयोगी नाम गीतार्थः। कश्च गीतार्थः? उच्यते-वस्त्र-पात्रादि-पिण्ड-शय्यैषणाध्ययनानि छेदसूत्राणि च सूत्रतोऽर्थतः तदुभयतो वा येन सम्यगधीतानि स गीतार्थः। तेन कृतयोगिना श्रुतोपदेशाऽनुसारिपरिणामपरिणतेन 'शय्या' उपाश्रयः, उपाश्रयग्रहणात् तृणडगलक मल्लकादिपरिग्रहः, तेषामपि प्रायस्तत्रैव सम्भवात्। संस्तारकः प्रतीतः, संस्तारकग्रहणं सकलौघिकौपग्रहिकोपलक्षणम्। भक्तमशनं, पानं सौवीरादि। वाशब्दात् | खादिमं स्वादिमं वा गृहीतं, पश्चात् कथमपि अप्रासुकमनेषणीयं वा ज्ञातं, तत्र प्रायश्चित्तं तस्य गृहीतस्य शय्यादे 'विवेकः' परित्यागः। उक्तं च- "तं सेज्जाइयं विहिणा सुओवदितॄण विगिंचमाणो परिसुद्धो" इति ॥१०८॥ पउरण-पाणगामे किं साहु न ठंति? सावए पुच्छा । नत्थि वसहित्ति पकया ठिएस अतिसेसिय विवेगो ॥ १०९ ॥ केचित् साधवः प्रचुरानपाने ग्रामे गताः, तत्र च वसतिर्दुष्प्रापा, नोचिता लभ्यते इति । न स्थिताः। ततः सावए पुच्छा इति षष्ठी-सप्तम्योरर्थं प्रत्यभेदात् श्रावकस्य तथाविधाऽभिनवदीक्षितस्य पार्श्वे पृच्छा अभवत्, यथा- किमिति 'साधवो नात्र तिष्ठन्ति?' स प्राह- 'नास्त्यत्र वसतिरिति' कृत्वा। ततः साधुषु गतेषु श्रावकैः गाथा १०६-११० तदुभयाहप्रायश्चित्तम् ६७ (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy