________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ५८ (A)
लोगोवयारविणओ, इय एसो वन्निओ सपक्खम्मि । आसज कारणं पुण कीरइ जयणा विपक्खे वि ॥ ८५ ॥
इति एवमुक्तेन प्रकारेण एषः लोकोपचारविनयः स्वपक्षे सुविहितलक्षणे वर्णितः। आसाद्य कारणं पुनः विपक्षेऽपि गृहस्थेषु तथाविधाऽगारिषु श्रावकेषु पार्श्वस्थादिषु च एष लोकोपचारविनयोऽभ्यासवर्त्तित्वादिलक्षणः यतनया प्रवचनोन्नतिव्याघातपरिहारेण संयमाऽनाबाधया च क्रियते ॥ ८५ ॥ तदेवं काय-वाङ्-मनो-लोकोपचारभेदतश्चतुष्प्रकारः प्रतिरूपविनय उक्तः । अथवा अन्यथा चतुष्प्रकारः प्रतिरूपविनयः । तानेव प्रकारान् दर्शयति
गाथा चउहा वा पडिरूवो, तत्थेगऽणुलोमवयणसहियत्तं१ ।
८५-९० पडिरूवकायकिरिया२ फासणसव्वाणुलोमं४ च ॥ ८६ ॥
प्रतिरुप
विनयवाशब्दः प्रकारान्तरद्योतनार्थः । अन्यथा वा चतुर्द्धा चतुष्प्रकारः प्रतिरूपविनयः । तत्र |* स्वरुपादि 4 तेषु चतुर्पु प्रकारेषु मध्ये एकः प्रतिरूपविनयस्तावदयं-यदुत अनुलोमवचनसहितत्वं | यत्किमपि कार्यमादिष्टः करोति, तत्सर्वमनुलोमवचनपूर्वकं करोति नान्यथेति भावः १।
५८ (A) १. जइणा - वा. मो• पु० मु० ॥
For Private And Personal Use Only