SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ५६ (B) एमेव य अनियाणं, वेयावच्चं तु होइ कायव्वं । कयपडिकिती वि जुज्जइ, न कुणइ सव्वत्थ तं जइवि ॥ ८२ ॥ यथा मोक्षाङ्गतया कार्यहेतुको विनयः साधुभिः कर्त्तव्यः, एवमेव मोक्षाङ्गतयैव कृतप्रतिकृतिरूपमपि वैयावृत्त्यम् अनिदानं निदानं-भोगप्रार्थना तद्रहितं भवति कर्त्तव्यम्। अनिदानमिति च विशेषणं "मध्यग्रहणे दण्डादेरिवाद्यन्तयोरपि ग्रहणमिति" न्यायात् पूर्वं : पश्चाच्च द्रष्टव्यम्, तेन सर्वोपि विनयो मोक्षार्थिभिरनिदानः कर्त्तव्यः। अथ कथं |* कृतप्रतिकृतिरूपस्य विनयस्य मोक्षाङ्गता? उच्यते-सुशिष्यो ह्येवं परिभावयति- 'ज्ञान-दर्शनचारित्रलाभैमिनुपकारिणमप्युपकुर्वन्ति भगवन्तोऽमी सूरयस्तस्मादेतेष्ववश्यं विनयः कर्त्तव्यः, "जस्संतियं धम्मपयाई सिक्खे, तस्संतिए वेणइयं पउंजे" [दशवै.९/१/१२] इति वचनात्। एवं च पर्यालोच्य यः क्रियते विनयः स कृतप्रतिकृतिरूपत्वात् कृतप्रतिकृतेर्मोक्षाङ्गत्वाच्चावश्यं कर्तव्य इति । अन्यच्च-उत्सर्गतस्तावत् साधुभिः सर्वं निर्जरार्थं कर्त्तव्यं, केवलं कदाचिदशुभोऽपि भाव उपजायते कर्मगतेर्विचित्रत्वात्, ततोऽशुभभावोदयवशाद् यद्यपि गाथा औपचारिक विनयस्वरुपम् ५६ (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy