SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरोरभ्यासे समीपे वर्त्तते इतिशीलोऽभ्यासवर्ती, गुरुपादपीठिकाप्रत्यासन्नवर्तीति भावः || १। छन्दः गुरूणामभिप्रायः, तमनुवर्तते-आराधयतीत्येवंशीलः छन्दोऽनुवर्ती, तद्भाव: व्यवहार छन्दोऽनुवर्त्तिता२। तथा कार्ये कार्यनिमित्तं तृतीयो विनयः, किमुक्तं भवति?- संग्रहमुपग्रहं सूत्रम् पीठिका वा मे करिष्यतीत्येवं बुद्ध्या यो यो विनयः क्रियते स कार्यनिमित्तको विनय:३। पडिकित्ती ५५ (A) चेवत्ति कृते कार्ये यः क्रियते विनयः स प्रतिकृतिरूपत्वात् प्रतिकृति:४। अत्र कार्यहेतुके प्रतिकृतिरूपे च विनये आक्षेप-परिहारौ भाष्यकृद् वक्ष्यति। तथा द्रव्याद्यापत्सु आर्तस्य, . उपलक्षणमेतत्, अनार्तस्य वा गवेषणं दुर्लभद्रव्यसम्पादनादिरूपमार्तगवेषणम् ५। तथा कालं प्रस्तावम्, उपलक्षणत्वाद् देशं च जानातीति कालज्ञः, तद्भावः कालज्ञतादेशकालपरिज्ञानं, तस्मिन् सति गुर्वादिच्छन्दसा गुर्वादिभ्योऽभ्यवहारादिप्रदानं करोति, ततो विनयहेतुत्वात्तदपि देशकालपरिज्ञानं विनय:६। तथा सर्वेषु गुरूपदेशेषु अनुलोमम्अप्रतिकूलता सर्वानुलोमम् ७। चः समुच्चये एष गाथासक्षेपार्थः ॥ ७८ ॥ व्यासार्थं तु भाष्यकृद् बिभणिषुः प्रथमतोऽभ्यासवर्तित्वं व्याख्यानयन्नाह गाथा ७५-८० वाचिकमानसिकविनयादि ५५ (A) ] १. गुर्वादिभ्य आहारा० वा. मो० पु. मु० ॥२. कूलं सर्वा खं॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy