SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org श्री व्यवहार सूत्रम् पीठिका ५३ (B) तदपि हितं मितं च भणति अपरुषमनिष्ठरम्। एतदेव व्याचष्टे-मृदुकं कोमलं, पुनः कथम्भूतमित्याह-हृदयं गृह्णाति हृदये सम्यग्निविशते इत्येवंशीलं हृदयग्राहि। तथा सुष्ठुअतिशयेन पेशलं-मनोज्ञं श्रोत्र-मनसां प्रीतिकारि सुपेशलम्। तथा नयन-मुखाभ्यां विकसन्, तथाकथञ्चनापि भणति यथा स्नेहमिवाऽऽन्तरं प्रतिबन्धमिव साक्षाद् उद्गिरन् प्रकटीकुर्वन् प्रतिभाषते, इत्थम्भूतो वक्ता अपरुषभाषी ॥७३॥ सम्प्रत्यनुविचिन्त्य भाषित्वप्रतिपादनायाह 'तं पुणविरहे भासइ, न चेव तत्तोऽवभासियं कुणइ । जोएइ तहा कालं, जह वुत्तं होइ सफलं तु ॥ ७४ ॥ तत्पुनः हितं मितम् अपरुषं च भाषते। अविरहे विरहाभावे समक्षमित्यर्थः । न पुनः || ततः विरहादन्यत्र परोक्षे अपभाषितं दुष्टभाषणं करोति, विरूपं भाषते इत्यर्थः। तथा | वचनविनयजोएइत्ति देशीवचनमेतद्, निरूपयति कालं प्रस्तावं, यथा प्रस्तावोचिततया उक्तं भणितं स्वरुपम् सफलं भवति ।७४॥ ५३ (B) १. तं पि यऽविरहे - तिसृष्वपि भाष्य-प्रतिषु, चूर्णिप्रत्यन्तरेषु च ॥ गाथा ७०-७४ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy