________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ५२ (B)
गम्यते। तत्कारी परलोकहितवादी। तथा दारुणः क्रोधाद्यन्वितः स्वभावो यस्याऽसौ दारुणस्वभावः, तद्भावो दारुण-स्वभावता, तां यो वारयति सोऽपि परत्रहितवादी ॥ ७० ॥ अत्र परः पृच्छति
अत्थि पुण काइ चेट्ठा, इहपरलोगे य अहियया होइ? । थद्ध-फरुसत्त-नियडी, अतिलुद्धत्तं च इच्चादी ॥ ७१ ॥
ननु हितभाषीत्यत्र हितमिति विशेषणं, विशेषणं च व्यच्छेदकं भवति, व्यच्छेद्यं चात्र [अ] हितं, तद् अस्ति पुनः काचित् कायिकी वाचिकी मानसिकी वाऽपि चेष्टा या इहलोके परलोके वाऽहिता सती व्यवच्छिद्येत? । सूरिराह-थद्धफरुसत्तेत्यादि, त्वप्रत्यय उभयत्रापि सम्बध्यते, स्तब्धत्वम्-अनम्रता, एतेन कायिकी चेष्टोक्ता। परुषत्वं-निष्ठुरभाषिता, अनेन वाचिकी। मानसिकीमाह- निकृतिः माया, अतिलुब्धत्व-मत्युत्कटलोभता इति, आदिशब्दात् क्रोधशीलता कलहोद्दीपकत्वमित्यादिपरिग्रहः, ततोऽस्ति अहितापि चेष्टेति तद्व्यवच्छेदार्थं हितग्रहणम्॥७१ ॥ सम्प्रति मितभाषित्व-व्याख्यानार्थमाह१. अहितता - जेभा खंभा० । अहितिया -वाभा०॥ २. ता एतेन वा० वा. पु० ॥
गाथा ७०-७४ वचनविनयस्वरुपम्
५२ (B)
For Private And Personal Use Only