________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
व्यवहारसूत्रम्
पीठिका २९ (B)
किञ्चिदनन्यत्। तथाहि-यदा ज्ञानी आत्मालम्बनज्ञान-परिणामपरिणतस्तदा ज्ञान(ज्ञेय) | ज्ञानिनोरेकत्वं, यदा त्वात्मव्यतिरिक्तघटाद्यालम्बनज्ञान-परिणामपरिणतस्तदाऽन्यत्वम्, आत्मनो घटादीनामन्यत्वात्। ज्ञानमपि यदाऽऽभिनिबोधिकादिस्वरूपालम्बनं तदा ज्ञानज्ञेययोरेकत्वं, यदा तु स्वव्यतिरिक्तघटाद्यालम्बनं तदाऽन्यत्वं, घटादीनां ज्ञानात् मूर्ताऽमूर्त्ततया पृथग्देशादितया च भिन्नत्वात् । 'भइयं पुण सेवियव्वेण' अत्रापि 'इति' इत्यनुवर्तते, इति उक्तेन प्रकारेण प्रतिषेवक-प्रतिषेवणयोरनानात्वं, भक्तं विकल्पितं, पुननानात्वं सेवितव्येन प्रतिषेवितव्येन, कदाचिदनानात्वं कदाचिन्नानात्वमित्यर्थः । तथाहि-यदा प्रतिषेवको हस्तकर्मादि प्रतिसेवते, तदा प्रतिषेवक-प्रतिसेवितव्ययोरेकत्वं, यदा पुनः प्रमत्ततया कीटिकादिसत्त्वव्यापादनादि प्रतिसेवते तदा नानात्वं, कीटिकादिसत्त्वानां साधोः पृथग्भूतत्वात् । प्रतिसेवना तु यदा प्रतिसेव्यमानता तदा सा प्रतिसेवितव्याद-नन्यैवेति प्रतिसेवना-प्रतिसेवितव्ययोरेकत्वनानात्वचिन्ता नोपपद्यते। अथ प्रतिसेवना प्रतिसेवकस्याध्यवसायः स तर्हि यदाऽऽत्मव्यापादनविषयस्तदा प्रतिसेवनाप्रतिसेवक(व्य)योरेकत्वं, यदा तु बाह्यस्त्र्यादिप्रतिसेवनाविषयः तदा नानात्वं, स्त्र्यादेः प्रतिसेवकाद(नाया)न्यत्वात् । ॥४०॥ सम्प्रति यत्प्राग्मूलोत्तरगुणविषयतया प्रतिसेवनाया द्वैविध्यमुक्तं, तद्विभाषयितुमाह१. कीटका वा• मो० पु० मु० ॥ २. विभावयिषुराह - वा. मो० पु० मु० ॥
गाथा ३७-४० प्रतिसेवनादिस्वरूपम्
२९ (B)
For Private And Personal Use Only