________________
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
श्री
|
व्यवहार
सूत्रम् पीठिका २४ (B)
संघे अहं ठवितो ता कहमहं तित्थयराणंतरं संघमइक्कमामि?' ति भणइ- 'तुमं चेवाऽऽभवति, न ममं ति' एष भावार्थः । ___अक्षरयोजनात्वेवं- सचित्तादावुत्पन्ने, आदिशब्दादचित्त-मिश्रपरिग्रहः, समासश्च कर्मधारयः। ततोऽयमर्थ:- सचित्ते-शिष्ये, अचित्ते-वस्त्रादौ, मिश्रे-सोपकरणे शिष्ये उत्पन्ने सति द्वयोः गीतार्थयोः परस्परं विवदमानयोः अन्यस्मिन् समीपे व्यवहारपरिच्छेदकर्तरि गीतार्थेऽसति कथमप्येकतरस्मिन् गीतार्थतया निवृत्ते विवादात् प्रत्यावृत्ते सम्यक् प्रागुक्तनीत्या व्यवहारश्रद्धानं भवति, सम्यग् व्यवहारप्रतिपत्तिरुपजायते इत्यर्थः । कथम्? इत्यत आह- 'गीयो अणाइयंतो' इत्यादि। गीत:-गीतार्थो 'अनतियन्' विवादादनतिक्रामन् द्वितीयेन गीतार्थेन सचित्ताधुत्पादनसहवर्त्तिना व्यवहारममुं त्वमेव 'छिन्द्धि', न हि त्वमगीतार्थो, नापि युक्तमयुक्तं वा त्वं न जानासि' इत्येवं 'छन्दितः' निमन्त्रितः 'सन्' चिन्तयति- अहमनेनाऽस्मिन् व्यवहारे प्रमाणीकुर्वता 'तीर्थकरानन्तरसङ्घमध्यवर्ती' स्थापितः, सङ्घश्च भगवदाज्ञावर्तितया यथावस्थितार्थवक्ता, अन्यथा तीर्थकरानन्तरत्वा१. ताद्युत्पन्ने- वा. मो० पु० मु० ॥ २ ०रपरिच्छेत्तरि - वा. पु० ॥
गाथा २९-३२ व्यवहर्त्तव्यस्वरूपम्
२४ (B)
For Private And Personal Use Only