SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य । ॥४५॥ शिष्टसामग्र्यपेक्षा सूत्रायत्ता च, सूत्रपौरुषी स्वभिनवदीक्षितेनापि जडमतिनापि च यथाशक्ति अवश्यं कर्तव्या, सूत्राभावे सर्वस्याप्यभावादतः सूत्रपौरुष्या अकरणे मासगुरु, अर्थपौरुष्या अकरणे मासलघु, द्वयोः सूत्रपौरुष्योरकरणे दो लघुमासौ तिसृणां पौरुषीणामकरणे त्रयो लघुमासा इति सामर्थ्यात् प्रतिपत्तव्यं, चाउकालमित्यादि चतुःकालं दिवारात्रिगतं प्रथमचरमप्रहररूपेषु चतुर्यु कालेषु सूत्रपौरुषीरवपातयतो भ्रंशयतोऽकुर्वत इत्यर्थः चतुर्लघुका श्चत्वारो लघुमासाः संप्रति काउसग्गे इति व्याख्यानयति ॥ छ । जइ उसग्गे न कुणइ तइमासा निसाए निवप्लेय,सव्वं चेवावस्संन कुगाइ तहियं चउ लहति।भा०१३२ आवश्यक प्राभातिके वैकालिके वा यावतः कायोत्सर्गान् न करोति ततिमासा स्तस्य प्रायश्चित्तं, एकं चेन्न करोति एकोलघुमासः । द्वौ न करोति द्वौ लघुमासौ त्रीन्न करोति त्रयो लघुमासा तथा निषण उपविष्टो निर्वन्नः पतितः सुप्त इत्यर्थः । चशब्दात् प्रावरण प्रावृतो वा यद्यावश्यकं करोति तदा सर्वत्र मासलघु, यदि पुनः सर्वमेवावश्यकं न करोति चतुर्लघु चत्वारो लघुमासा प्रायश्चित्तं । अधुना अपडिलेहा इति व्याचष्टे ॥ छ ।। चाउम्मामुकोसे, मासिय मज्झे य पंचउ जहन्नो, उबहिस्स अपेहाए एसा खलु होइ आरुवणा |भा०१३३॥ उत्कृष्टे उत्कृष्टस्य प्रागुक्तस्वरूपस्य उपधेरप्रेक्षायामप्रत्युपेक्षायां चत्वारो लघुमासा मध्ये मध्यस्योपधरेप्रत्युपेक्षायां लघुमासा जघन्ये जघन्यस्य पंचरात्रि दिवानि एषा खलु भवति आरोपणा प्रायश्चित्तमप्रत्युपेक्षायामिति, संप्रति पोसहियतवेय इति व्याख्यानयति ॥ ॥ ४५ ॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy