SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य ॥ ४२ ॥ 6609/1984 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नृमस्तथा चाह | छ । मणसो एगग्गत्तं जणयइ देहस्स हाइ जडत्तं । काउस्सग्गगुणा खलु सुहदुह मज्झत्थया चेव ॥ भा० १२५ ।। कायोत्सर्गस्य गुणाः कायोत्सर्गगुणाः खल्बमी तद्यथा कायोत्सर्गेः सम्यग्विधिना विधीयमानो नाम मनसश्चित्तस्य एकाग्रत्वमेकाग्रलंबनतां जनयति, तचैकाग्रत्वं परमं ध्यानं जं थिरमज्झवसाणं तं ज्झाणमिति वचनान् देहस्य शरीरस्य जडत्वं जाड्यं हंति विनाशयति, प्रयत्नविशेषतः परमलाघवसंभवात् तथा कायोत्सर्गस्थितानां वासीचंदनकल्पत्वात् सुखदुःखमध्यस्थता सुखदुःखे परैरुदीर्यमाणे रागद्वेषाकरणमन्यथा सम्यक्कायोत्सर्गस्यैवासंभवात् उक्तं व्युत्सगर्हप्रायश्चित्तमिदानीं तपोर्ह वक्तव्यं तपश्च रात्रिंदिवपंचकादारभ्य रात्रिंदिवपंचकादिवृध्ध्या तावन्नेयं यावत्पण्मासाः तत्र येषु स्थानेषु रात्रिंदिवपंचकतपसान्युपदर्शयति । छ । दंडगगहिनिक्खेवे, श्रावसियाए निसिहियाए यः गुरूणं च श्रपणामे, पंचराईदिया होति ॥ भा० १२६ ॥ दंडं गृह्णन् प्रत्युपेक्षते न प्रमार्जयतीत्येको भंगः, न प्रत्युपेक्षते प्रमार्जयतीति द्वितीयः न प्रत्युपेक्षते न प्रमार्जयतीति तृतीयः, प्रत्युपेक्षते प्रमार्जयतीति चतुर्थः । तत्राद्येषु भंगकेषु पश्चादानुपूर्व्या यथोत्तरं तपः कालविशेषिते लघुर्मासः प्रत्येकं प्रायश्चित्तं, चतुर्थे चत्वारो भंगास्तद्यथा दुःप्रत्युपेक्षते दुःप्रमार्जयति । १ । दुःप्रत्युपेक्षते सुप्रमार्जयति । २ । सुप्रत्युपेक्षते दुःप्रमार्जयति । ३ । सुप्रत्युपेक्षते सुप्रमार्जयति । ४ । अत्राद्येषु त्रिषु मंगेषु पञ्चादानुपूर्व्या यथोत्तरं तपः कालविशेषे तानि पंचरात्रंदिवसानि प्रायश्चित्तं चतुर्थे भंगे शुद्धो विधिना प्रवृत्तेः, इहाद्यास्त्रयो भंगका नासलघुप्रायश्चित्तविषयाः, प्रस्तावा For Private and Personal Use Only ********<>**<*************<--03 पीठिका ॥ ४२ ॥
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy