________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
पीठिका
श्री व्यव- कालसहावाणुमया, महारुवहीउवस्सया चेव । नाउं ववहरइ तहा, छंदं अणुवत्तमाणो उभा०८०॥ हारसूत्रस्य * आहारः पिंडः, उपधिः कल्पादिः, उपाश्रयो वसतिरेते कालस्वभावानुमता इति, अनुमतशब्दः प्रत्येकमभिसंबध्यते, ॥३१॥
कालानुमताः स्वभावानुमताश्च कालानुमता ये यस्मिन् काले सुखहेतुतयानुमताः ते कालानुमताः । प्रकृतिः स्वभावः स चा| दिह गुरोः प्रतिगृह्यते तदनुमताः तदनुकूलाः तान् तथा ज्ञात्वा च्छंदो गुरोरभिप्रायमनुवर्त्तमानो व्यवहरति संपादयति,
एप च्छंदोनुवर्तिताविनयः, संप्रति कार्यहेतुके विनये परकृतमाक्षेपं मनस्याधाय परिहारमाह । छ। | इहपरलोकासंसविमुक्कं कामं वयंति विणयं तु, मोक्खाहिगारिएसु अविरुद्धो सो दुपक्खेवि ॥भा०८१॥
ननु तीर्थकरैर्भगवद्भिरिहपरलोकाशंसाविप्रमुक्तविनयः कर्तव्यतयोपदिष्ट स्ततः कथं साधूनां कार्यहेतुको विनयः ? उच्यते, काममिति अनुमते अवधृते ततोयमर्थः, यद्यपि नाम इह परलोकाशसाविप्रमुक्तं काम नियमावदंति विनयं तथापि मोक्षाधिकारिषु मोक्षयोग्येषु मोक्षपथज्ञानदर्शनचारित्रवत्स्वित्यर्थः स कार्यहेतुकोपि विनयः द्वयो पक्षयोः समाहारे द्विपक्ष, तस्मिन्नपि साधुवर्गे चेत्यर्थःअविरुद्धो न विरोधभाक् इयमत्र भावना कार्यहेतुकोपि विनयः खलु संग्रहादि कार्यार्थ संग्रहादि कार्य च मोचांगमिति, सोपि मोक्षार्थिना कर्तव्यो भगवदुपदिष्टत्वादिति, संप्रति कृत प्रतिकृत विनये तमेवाक्षेपं मनस्याधाय परिहारमाह ।छ।
एमेवय अनियाणं, वेयावच्चं तु होइ कायव्वं । कयपडिकित्ती विजुज्जइ, न कुणइ सव्वत्थ न जयइवि ॥ भा० ८२ ॥
For Private and Personal Use Only