SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ***08-1300/-++-*****+)*** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताद्योतनार्थः पश्चिमानां चतुर्णां ऋजुसूत्रादीनां नयानां ये नैगमसंग्रहव्यवहाररुपास्त्रयस्ते शुद्धाः शोधयंति कर्ममलिनं जीवमिति शुद्धाशुद्धेरंतरभूत "र्थात् क्तप्रत्ययः, न उ पछिमातेसिं न तुयेतेषामादिधानां पश्चिमाऋजुमूत्रादयस्ते शुद्धाः अनुयायिद्रव्याऽनभ्युपगमस्तेषां विशोधकत्वायोगात् कथं पुनराद्यास्त्रयोनयाः शुद्धा इत्यत आह वेणइए मिच्छत्तं ववहारनयउजं विसोहिंति; तम्हा तेव्विय सुद्धा भइयव्वं होइ इयरेहिं ॥ भा ४८ ॥ वैनयिको नाम मिथ्यादृष्टिस्तस्मिन् यन् मिथ्यात्वं यत् व्यवहारनया एवतुरेवकारार्थः नैगमसंग्रहव्यवहाराः शोधयंति अपनयंति, तेह्यनुयायिद्रव्याभ्युपगमपरा स्ततः कृतकर्मफलोपभोगोपपत्तेः सद्धम्मदेशनादौ प्रवृत्तियोगतो भवति तात्विकी शुद्धिः तस्मात्तएव शुद्धाः भइयन्त्र होइ इयरेहिंति, इतरै ऋजुत्रादिभिनयैर्मिथ्यात्वशोधिमधिकृत्य भजनीयं, शुद्धयतीति भावः, तेहि पर्याय मात्रमभ्युपगच्छंति, पर्यायाणां परस्परमात्यंतिकं भेदं ततः कृतविप्रणाशादि दोष प्रसंगः, तथाहि मनुष्येण कृतं कर्म किल देवो भुंक्ते, मनुष्यावस्थातच देवावस्था भिन्ना, ततोमनुष्यकृतकर्म्म विप्रणाशो, मनुष्येण सता तस्योपभोगाभावात् देवस्य च फलोपभोगोऽकृताभ्यागमः, देवेन सता तस्य कर्म्मणोऽकरणात् कृतविप्रणाशादि दोषपरिज्ञाने च न कोऽपि धर्मश्रवणे अनुष्ठाने वा प्रवर्त्तत इति मिध्यात्वशुद्ध्यभावस्तदभावाच्च न ते शुद्धा इति एतदेवस्पष्टतरं विभावयिपुराह । छ । ववहारनयस्साया कम्मं काउं फलं संमणु होइ, इय वेणइएकहणं विसेस माहु मिच्छत्तं ॥ ४९ ॥ व्यवहारः प्रधानोनयो व्यवहारनयस्तस्वमतेन श्रात्मा शुभमशुभं वा कर्म कृत्वा तस्य फलं भवांतरे समनुभवति अनुयायि For Private and Personal Use Only ***@******-**-*-**-***
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy