SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie लंबनं तदान्यत्वं. घटादीनां ज्ञानात् मृ मूर्ततया पृथग्देशादितया च भिन्नत्वात् भइयं पुण सेवियोण अत्रापीतीत्यनुवर्तते, इति उक्तेन प्रकारेण प्रतिषेवकप्रतिषेवणीयोरनानात्वं भक्तं विकल्पितं. पुन र्नानात्वं सेवितव्येन प्रतिषेवितव्येन कदाचिदनानात्वं कदाचिन्नानात्व मित्यर्थः तथाहि यदा प्रतिपेवको हस्तकर्मादि प्रतिसेवते, तदा प्रतिसेवकप्रतिसेवितव्ययोरेकत्वं, यदा पुनः प्रमत्ततया कीटकादिसत्वव्यापादनादि प्रतिसेवते, नानात्वं कीटकादिसत्यानां साधोः पृथग्भूतत्वात् प्रतिसेवनात् यदा प्रतिसेव्यमानता तदा सा प्रतिसेवितव्यादनन्यैवेति प्रतिसेवनाप्रतिसेवितप्रतिसेवितव्ययोरेकत्वनानात्वचिन्ता नोपपद्यते, अथ प्रतिसेवना प्रतिसेवकस्याध्यवसायः स तर्हि यदात्मव्यापादनविषयस्तदा प्रतिसेवनाप्रतिसेवनयोरेकत्वं यदा तु बाह्यस्व्यादिप्रतिसेवनाविषयः तदानानात्वं ख्यादिप्रतिसेवकादन्यत्वात् संप्रति यत्मागमूलोत्तरगुणविषयतया प्रतिसेवनाया द्वैविध्यमुक्तं, तद्विभावयिपुराह । छ। मूलगुणे उत्तर गुणे, दुविहा पडिसेवणा समासेण, मूलगुणे पंचविहा पिंडविलोहाइवा इयरामा ४१॥ प्रतिसेवना समासेन संक्षेपेण द्विविधा, तद्यथा मूलगुणे मूलगुणविषया उत्तरगुणे उत्तरगुणविपया, तत्र मूलगुण विषया पंचविधा प्राणतिपातमृपावादादत्तादानमैथुनपरिग्रहरूपा इतर उत्तर गुणविषया पिंडविशुध्यादिविषया अनेकविधा, अत्रादिशब्दात्समित्यादिपरिग्रहः किमुक्तं भवति मुलगुणेषु प्राणातिपातविरत्यादिषु उत्तरगुणेपु पिंडविशुध्यादिषु यथाक्रम प्रतिसेवना प्राणातिपातादिलक्षणा पंचविधा प्राधाकर्मोपभोगादिलक्षणा अनेकविधेति, तत्र मूलगुणप्रतिसेवनासरंभादिभेदतश्चित्रा उत्तरगुणप्रतिसेवनात्वतिक्रमादिभेदतस्तथा चाह । छ । For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy