SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 4000++** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिशब्दो यथा प्रत्यग्नि शलभाः पतंतीत्यत्र वीप्सायामतः प्रत्येकशब्दस्य वीप्साविवक्षायां द्विवचनं अपराधान् अपराधे सति मासिकादिकं प्रायश्चित्तं दीयते इति उपचारतः प्रायश्चित्तान्येवापराधशब्देनोक्तानि तान् भणित्वा यथा केषुचिदपराधेषु मासलघु, केषुचित् मासगुरु, केपुचिच्चातुर्मासलघु, केषुचिच्चातुर्मासगुरु, एवं सूत्रत अर्थतश्च केषुचिल्लघुपंचकं, केषुचिद्गुरुपंचकमैवं, यावत् केषुचिद् भिन्नलघु, केपुचिद् भिन्नमासगुरु, तथा केपुचिदपराधेषु पदलघु केषुचित् पद्गुरु, केषुचित् छेदकेषुचित् मूलं, केषुचिदनवस्थाप्यं, केषुचित् पारांचित, एवं दोषेषु प्रत्येक प्रत्येकं प्रायश्चित्तानि भाषित्वा भूय इदमुक्त, यथा एकः पुरुषो गुरुकं मासिकमापन्नोऽपरो लघुमासिकं, तयोर्द्वयोरपि कदाचित् गुरुकं मासिकं दद्यात्, कदाचिल्लघुमासिकं, तथा एको लघुपंचकमापन्नोऽपरो गुरुपंचकं, तयोर्द्वयोरपि कदाचिल्लघुपंचकं दद्यात् कदाचित गुरुपंचकं, तथा एकः पंचकमापन्नोऽपरो दशकं, तयोर्द्वयोरपि कदाचित् पंचकं दद्यात् कदाचित् दशकमेवं, पंचदशक विंशति रात्र भिन्नमास मास द्विमास त्रिमास चतुर्मास पंचमास पण्मास छेदादिक्रमेण तावद् वाच्यं यावत् पारांचितं तद्यथा एकः पंचकमापन्नोऽपरः पारांचितं तयोर्द्वयोरपि कदाचित् पंचकं दद्यात् कदाचित्पारांचितमिति, एवं दशकादिकमपि स्वस्थाने गुरुलघु विकल्पतः परस्थाने पंचदशादिभिः सह वक्तव्यं, यावत्पारांचितमेतच्च तदोपपद्यते, यदा दोषाणामेकत्वं भवति, तच्चदुरूपपादमतः पृच्छति, तो केणेत्यादि, यतो दोषेषु प्रत्येकं प्रत्येकं प्रायश्चित्तान्युक्त्वा पश्चात् दोषाणामेकत्वे सतीव प्रायश्चित्तान्युक्तानि ततः कथय केन ( प्रकारेण ) कारणेन दोषाः परस्परं गुरुगुरुतरादितया महदंतराला अपि एकत्वमापन्नाः, सूरिराह, - जिण चोदसजातीए श्रालोयण दुव्त्रलेय श्रायरिए। एएण कारणेणं दोसा एगत्तमावन्ना ॥ २५६ ॥ For Private and Personal Use Only **********@*****@********-*-**--•
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy