SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संचयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितो, जाता पश्चादेकविंशतिः, पंचविंशतिदिना चारोपणा त्रिभिर्मासैनिष्पनेत्येकैको मासः, स विभागैरष्टभिर्दिननिष्पत्रस्तत एकविंशतिरष्टभिर्गुणिता, जातमष्टपष्टं शतं त्रिमागगुणिते च लब्धाः सप्त तेपि तत्र प्रक्षिप्यंते, जातं पंचसप्ततं शतं तत्र विंशतिः स्थापनादिवसाः प्रक्षिप्यंते, जातं पंचनवतं शतं १६५ ॥ तत्र पंचदश दिनानि झोष इति तान्यपनीयंते, जातमशीतं शतमागतमत्र द्वाभ्यां स्थापनीकृताभ्यां मासाभ्यां दश दश रात्रिंदिवानि गृहीतानि, शेषेभ्यस्त्वेकविंशतिमासेभ्यो मात्रतः सत्रिभागान्यष्टावष्टौ रात्रिंदिवानि, केवलं तत्रापि पंचदश दिनानि झोपीकृतानीति, तदेवं स्थापनातः शेषमासेभ्यो मात्रतो यत् गृहीतं, तत्प्रतिपादितमधुना शेषमासेभ्यो यत् येभ्योविशेषतो गृहीतं तत् प्रतिपादनार्थ करणमाह ॥ रुवणाई जइ मासा, तइभागं तं करे तिपंचगुणं । सेसंच पंचगुणियं ठवणादिवसा जुया दिवसा ॥१९३।। ___ स्थापनामासेषु शोधितेषु यच्छेषमवतिष्ठते, तत् भारोपणायां यतिमासास्ततिभागं तावत्संख्याकभागं करोति, कृत्वा चायभागं त्रिपंचगुणं पंचदशगुणं करोति, शेषं तु समस्तमपि पंचगुणं एतच्चैवं द्रष्टव्यं, पाक्षिक्यादिवारोपणासु यदिपुनरेकदिना द्विदिना यावच्चतुर्दशदिना आरोपणा तदा यतिदिना आरोपणा ततिगुणं कुर्यात् , ततस्ते दिवसा स्थापनादिवसयुताः क्रियंते, ततो दिवसाः पएमासदिवसा भवंति, तद्यथा प्रथमायां स्थापनायां प्रथमायां चारोपणायां त्रयोदश संचयमासाः तेभ्यो द्वौ स्थापनामासौ शोधितौ जाता एकादश, भन्यं त अवते, अत्रायं वृद्धसंप्रदायः यद्येकसात् मासान् निष्पना आरोपणा, ततः प्रतिसेवितमासेभ्यः स्थापनाया आरोपणायाश्च मासाः शोधयितव्याः अथ द्वयादिमासे निष्पनारोपणा ततः प्रति For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy