SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | दुरूवसहिया इत्यादि, यतिमासाः स्थापनायामारोपणायां वाधिकृत करणवशाबन्धास्ते दिवसा नयनाय द्विरूपसहिताः क्रियते, तत पंचगुणास्ततो भवेयु यथोक्ता दिवसाः, यथा विंशिकायाः स्थापनाया वो मासौ तौ द्विरूपसहितो क्रियेते, जाताश्चत्वारस्ते पंचभिर्गुण्यंते, आगतं विंशिकायाः स्थापनाया विंशतिदिनानि तथा पाक्षिक्या प्रारोपणाया एको मासः, स द्विरूपसहितः क्रियते, जातात्रय स्ते पंचभिर्गुण्यंते, आगतं पाक्षिक्या प्रारोपणायाः पंचदश दिनानि तथा पंचविंशतिदिनाया पारोपणायास्त्रयो मासास्ते द्विरूपयुताः क्रियते, जाताः पंच ते पंचभिर्गुण्यंते, आगतं पंचविशतिदिनानि एवं सर्वत्र भावनीयं, तदेवं | करणान्यभिधायोपसंहारमाह, ठवणारोवणसहिया संचयमासा हवंति एवइया ।कत्तो किंगहियं तिय ठवणामासे ततो सोहे ॥१६॥ पूर्व ठवणारोवणदिवसे माणाउ विसोहइतु इत्यादि करणवशात् ये लब्धा मासास्तेऽनंतरोक्तकरणवशादानीता ये स्थापनारोपणा मासा स्तत्सहिताःक्रियते, ततः शिष्येभ्यः एवं प्ररूपय, अस्यां स्थापनायामस्यां चारोपणायामेतावंतः संचयमासाः, सर्वप्रायवित्तसंकलनमासा भवंति, तदेवं यतिभिर्मासैः प्रतिसेवितैर्या स्थापना आरोपणा च निष्पन्ना, तदेतत् प्रतिपादित मधुना तस्यां तस्यां स्थापनायामारोपणायां संचयमासानां मध्येकुतो मासात् किं गृहीतमिति प्रतिपादनार्थमाह, कत्तो इत्यादि -शिष्यः पृच्छति, तस्यां तस्यां स्थापनायामारोपणायां च संचयमासानां मध्ये कुतो मासात् किं गृहीतमत्र सूरिः करणमाह, ठवणामासे ततो सोहे, ततः संचयमाससंख्यातः स्थापनामासान् शोधयेत् शोधिते च सति ।। For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy