SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्री व्यवहारसूत्रस्य पीठिका ॥११॥ प्रतिसेवते इत्येवं शीलं कारणप्रतिसेवी, तहय आहच्चेति तथा चेति समुच्चये कारणेप्यकृत्यप्रतिसेवी, न यदा तदावा, किंतु आहच्च कदाचित् अन्यथा कदाचित् अन्यथा वादीर्घसंयमस्फातिमनुपलक्षमाणो अथवा आहचेति कदाचिदकारणे पि प्रतिसेवी पियधम्मे य बहुसुए इति आयंतयोग्रहणे मध्यस्यापि ग्रहणमिति न्यायात् प्रियधर्मा दृढधा संविग्नोऽवद्यमीरुः सूत्रार्थ त दुभयविद इत्यपि दृष्टव्यं, एते सर्वेऽपि व्यवहर्त्तव्या, विइयंति अत्र द्वितियं मतांतरं केचिदाहुरवक्रादीनामपि प्रतिपक्षा व्यवहर्त्तव्या इति, उवदेस पच्छित्तं इह द्विविधः साधु गीतार्थोऽगीतार्थश्च तत्रयोगीतार्थ स गीतार्थत्वादेवानाभाव्यं न गृह्णातीति न तस्योपदेशः यः पुनरगीतार्थस्तस्यानाभाव्यं गृह्यत उपदेशो दीयते, यथा न युक्तं तवानाभवात् गृहीतुं यदि पुनरनाभवत् ग्रहीष्यसि, ततस्तनिमित्तं प्रायश्चित्तं भविष्यतीत्युपदेशदानं, तत एवमुपदेशे दत्ते सति दानप्रायश्चित्तं दीयते इति गाथासमासार्थः, अत्र शिष्यः प्राह कारणप्रतिसेवी भावव्यवहर्तव्य उक्तः स कथमुपपद्यते, प्रतिषिद्धं हि यतनयापि सेवमानो जिनाज्ञाप्रद्वेषकारी ननु स दुष्टभाव इति कथं भावव्यवहर्तव्यः ? नैप दोषो, जिनाज्ञाप्रद्वेषकारित्वाभावात् सतिकारणे प्रतिसेवायामपि वर्तते, जिनाज्ञामवलंब्यैव यथास्यामवस्थायां दीर्घसंयमस्फातिनिमित्तमकृत्यप्रतिसेवायामपि प्रवर्तितव्यमिति, ततो न कश्चिदोषः, अपि च भगवंतो वीतरागा न मिथ्या कदाचनापि ब्रुवते, वीतरागतया तेषां मिथ्यावचन कारणाभावात् ; ' उक्तंच रागाद्वा द्वेपाद्वा मोहाद्वावाक्यमुच्यते घनृतम्, यस्य तु नैते दोषास्तस्याऽनृतकारणंकिं स्यात् ॥ १॥ भगवता वा यतनयापि कारणे प्रतिसेविनो भावव्यवहत्तेव्या उक्तास्तद्यदि भगवद्चनाद् द्वितीयभंगवर्तिनोपि भावव्यवहतंव्यास्ततः प्रथमभंगवर्तिनः सुतरां भावव्यवहर्तव्या भवेयुः तथा चाह ।। ॥११॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy