SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। श्री व्यवहारपत्रस्य पीठिकाऽ नंतरः। ॥५२॥ एवं त्वमपि चोदक एक्कासि एकवार बहनि मासिकानि स्थानानि प्रतिसेव्य एकवेलायां सर्वाण्यप्यालोचितानीति मासेन मुक्तो द्वितीयवारमुपेत्य प्रतिसेव्य तथालोचयन् लक्षितस्वभावो मूलं तु शब्दात् च्छेदं वा लप्स्यसे, यथा लब्धवान् चारभटो मरणं अन्यच्च स चारभटो वा इह एकं प्राप्तवान् त्वं पुनः संसारे अनेकानि मरणानि प्राप्स्यसि, तस्मात् प्रतिसेवकपरिणामानुरूप एषप्रायश्चित्त दानविधिर्नालोचनामात्रविशेषकृत इति नान्यथा प्रसंजनीयः एतदेवाह ।। छ । असुहपरिणामजुत्तेण सेविए एगमेगमासोउ; दिजइ य बहसु एगो सुहपरिणामो जया सेवे ॥भा.१५७॥ अशुभपरिणामयुक्तेनासेविते निष्कारणमयतनया प्रतिसेविते इत्यर्थः । एतस्मिन् मासे एको मासः परिपूर्णो दीयते, दुष्टाध्यवसायेन प्रतिसेवनात पुनः प्रत्यावृत्तेरभावाच्च. यदा पुनः शुभपरिणामः सेवते, पुष्टमालंबनमालंब्य प्रतिसेवते, इत्यर्थः दुष्टाध्यवनायेन वा सेवित्वा पश्चाब्रह्वात्मनिंदनं करोति, तस्य बहुम्वपि मासेषु प्रतिसेवितेष्वेको मासो दीयते, इह कश्चित् दंडदानादात्मानमपभ्राजनास्थानं दुःखितं मन्येत, तं प्रति दंडदानादानफलमाह ।। छ । दिलमदिन्नो दंडो, सुहदुहजणणो उदोण्हवग्गाणं; साहुणं दिन्नसुहो अदिन्नसोक्खो गिहत्थाणं भा.१५८॥ द्वौ वग्गौ तद्यथा । साधुवग्र्गो गृहस्थवर्गश्च, तयोर्द्वयोर्वर्गयोदडो दत्तो, दत्तश्च यथायोगं सुखदुःख जननः तत्र साधूनां | दत्तः सन् दंडः सुखहेतुरदत्तः सन् दुःखकारणमिति सामर्थ्यात् गम्यते गृहस्थानामदत्तः सन् सुखावहो दत्तः सन् दुःखावह इति सामर्थ्यात् प्रत्येयं कस्मादेवमिति चेदत आह ।। For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy