SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्रीध्यवहारसूत्रस्य अपि च न भावतो विशोधिमिच्छंति, ततस्ते द्रव्यव्यवहर्त्तव्याः, भावे भावविषया व्यवहर्त्तव्या विशोधिकामा एव, तुशब्दस्य एवकारार्थत्वात् विशोधौ कामोऽभिलापो येषां ते विशोधिकामाः कथमसाकमेतत्कुकर्मविपया विशुद्धिर्भविष्यतीति विशुद्धिप्रतिपत्त्यभ्युद्गता भावव्यवहर्तव्या इतिभावः, न केवलं द्रव्यव्यहर्तव्याश्चौरादयः, किंतु जायमयसूयगाइसु निज्जूढा इत्यादि सूतकशब्दः प्रत्येकमभिसंबध्यते, जातसूतकं मृतसूतकं च, सूतकं नाम जन्मानंतरं दशाहानि यावत्, मृतकसूतकं नाम मृतानंतरं दशदिवसान यावत् , तत्र जातकसूतके मृतकतके या आदिशब्दात् तदायेषु शुद्रगृहाहिषु ये कृतभोजनाः संतो धिग्जातीय र्निव्यूढा असंभाष्याः कृतास्तथा ये पातकहताश्च पातकेन ब्रह्महत्यालक्षणेन मातापित्रादिघातकलक्षणेन वा हताः पातकहताः एते हि द्वयेऽपि यदा न स्वदोष प्रतिपद्यते प्रतिपद्यमानावा न सम्यगालोचयंति, किंतु व्याजांतरेण कथयंति तदा द्रव्यव्यवहर्तव्या द्रष्टव्याः, तथाहि एगो धिजाइतो उरालाएण्डसाए चंडालीए वा अज्झो ववष्मो ततो तं कारण फासित्ता पायच्छित्तनिमित्तंचउव्वेयमुवद्वित्तो भणति सुमिणेप्हुसं चंडालिंवागतोमि इति, एवमादयो द्रव्यव्यवहर्तव्या तथा चाह ॥ छ । फासेऊण अगम्म, भणेइ सुमिणे गयो अगम्मंति; एवमादिलोयदव्वे उज्जु पुणहोइ भावमि ॥भा१८॥ स्पृष्ट्वा कायनेतिगम्यते अगम्यांस्नुपां चांडाल्यादिकां वा स्त्रियमिति शेषः, भणति प्रायश्चित्तनिमित्तं चतुर्वेदमुपस्थितः सन् यथा स्वमे गतो गम्यामिति एबमादयः प्रादिशब्दात् अपेयं सुरादिकं पीत्वा प्रायश्चित्तनिमित्तं चतुर्वेदमुपस्थितो ब्रूते, स्वमे अपेयपानं कृतवानहमित्यादिपरिग्रहः, लोयदब्बेति, लौकिका द्रव्यव्यवईतव्याः उज्जु पुण होइ भावंमि, अत्र सामान्य ॥१०॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy