________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गता उपसंपदालोचना सांप्रतम पराधालोचना ययात्र प्रकृतं ।
एमेवय अवराहे किं न ते कया तहिं चिय विसोही।
अहिगरणादीसाहति गीयच्छो वा तहिं नस्थि ॥ १२० ॥ यथा विहारालोचनायामुपसंपदालोचनायां च विधिर्भणित एवमेव तथैव अपराधालोचनायामपि द्रष्टव्यो, यावत् पृष्टो वा अपृष्टो वा ब्रूते अहमपराधालोचकः समागतः तत आचार्यैर्वक्तव्यः किं केन कारणेन ते त्वया तत्रैव स्वगच्छ एव न कृता विशोधिः प्रायश्चित्तांगीकरणेन, एवमुक्ते यदि साधयति कथयति अधिकरणादीनि अधिकरणं तैस्सहजातमादिशब्दात प्रागुक्तविकृतियोगप्रत्यनीकादिकारणपरिग्रहः अथवा वक्ति तत्र गीतार्थो नास्ति तत्राधिकरणादिष्वविशुद्धिकारणेषु समागत एवं प्रतिभणनीयः ।
नच्छि इहं पडियरगा, खुलखेत्तं उग्गमविय पच्छित्तं
संकियमादीवपदे जहक्कम ते तहवि भासे॥ भा० १२१ ।। अस्तीति निपातो बहुवचनार्थः प्रतिचारका नाम अपराधापन्नस्य प्रायश्चित्ते दत्ते तपः कुर्वतो ग्लानायमानस्य वैयावृत्त्यकरास्ते इह मम पार्श्वे न संति, खुलक्षेत्रं नाम मंदमिदं यत्र वा प्रभूतमुपग्रहकारि घृतादि द्रव्यं न लभ्यते, तादृशमिदं
For Private and Personal Use Only