SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विना लंचां गीतार्था अपि ये ममायं भ्राता ममायं निजक इति पक्षण पक्षपातेन व्यवहारकारिणस्तेपि द्रव्यव्यवहारिणः मध्यस्थरूपस्य भावस्यासंभवात् , संप्रति नोआगमतो लोकोत्तरिकान् भावव्यवहारिणः प्राह ॥छ।। पियधम्मादढधम्मा, संविग्गा चेव वज्जभीरू सुत्तत्थतदुभयविऊ अणिस्सियववहारकारीय॥भा१४॥ प्रियो धर्मो येषां ते प्रियधर्माणः, धर्मे दृढा दृढधर्माः, राजदंतादित्वात् दृढशब्दस्य पूर्वनिपातः, अत्र चतुर्भगिका प्रियधर्माणो नामैकेनो दृढधा इति प्रथमो भंगः, नो प्रियधर्माणो दृढधर्मा इति द्वितीयः, अपरे प्रियधर्माणो दृढवाश्चेति तृतीयः, अन्ये नो प्रियधर्माणो नो दृढधर्मा इति चतुर्थः, अत्र तृतीयोभंगोऽधिकृतो न शेषा इति प्रतिपत्त्यर्थं विशेषणांतरमाह, संविनाः संविग्न नामोत्त्रस्तास्तेच द्विधा, द्रव्यतो भावतश्च, द्रव्यतः संविग्ना मृगास्तेषां यतस्ततो वा बिभ्यतां प्रायः सदैवोत्त्रस्तमानसत्वात् , भावसंविग्ना ये संसारादुत्त्रस्तमानसतया सदैव पूर्वरात्रादिष्वेतचिंतयंति, किं मे कडं किं च ममाथिसेस, किसकणिज्जं न समायरामि इत्यादि, अत्र भावसंबिनै रधिकारः भावसंविग्नप्रतिपत्यर्थमेव विशेषणांतरमाह, वजभीरुअ वयं-पापं, तस्य भीरवः ये चावद्यभीरवस्ते भावसंविग्ना एवेति, वञ्जभीरुग्रहणेन भाव संविम्नः प्रतिपत्तिः एते च यथोक्तविशेषणेन विशिष्टा अपि न गीतार्थत्वमृते भावव्यवहारकारिणो भवंतीति, गीतार्थत्वप्रतिपयर्थमाह; सुतत्थतदुभयविऊ सूत्रंच अर्थश्च तदुभयं चेति तच्च तत् सूत्रार्थलक्षणं, उभयंच तदुभयं च सूत्रार्थतदुभयानितानि विदंतीति सूत्रार्थतदु भयविदः, किमुक्तंभवति ? | सूत्रचिंतायां सूत्रमर्थचिंतायामर्थ, तदुभयचिंतायां च तदुभयं, ये विदंति, ते सूत्रार्थतदुभयविद इह सूत्रार्थवेदने चतुर्भगिका, सूत्रविदो नामैको नो अर्थविदः, नो सूत्रविदोऽर्थविदः २ अपरे सूत्रविदो अर्थविदोपि, ३ अन्ये नो सूत्रविदोनाप्यर्थविदः ४ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy