SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तश्च सन् त्रीन दिवसान् यावत् परीक्षितः शुद्धः, इत्थंभूतं यो न प्रतीच्छत्याचार्यस्तस्य प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः, योपि उपसंपन्नो वर्तनानिमित्तं संधनानिमित्तं ग्रहणनिमित्तं वा स यदि वर्तनां संधनां ग्रहणं वा न करोति तदा तस्मिन् वर्त्तनादिकमकुर्वति प्रत्येकं विष्वपि स्थानेषु वर्तनादिषु मासो लघुकः प्रायश्चित्तं, प्राचार्योपि यद्युपसंपन्नं प्रमाद्यतं न सारयति ततस्तस्मिन्नपि सारणे अत्र विभक्तिलोप आर्षत्वात् । अकुर्वति त्रिष्वपि वर्तनादिषु स्थानेषु मासलघु एतच्च प्रायश्चित्तविधान सूत्रविषयमर्थे पुनर्वर्तनादिमकुर्वति शिष्ये अर्थनिमित्त पसंपन्न प्रमाद्यतं वर्त्तनादिघसारयति गुरौ च प्रत्येकं त्रिष्वपि वर्त्तनादिषु स्थानेषु प्रायश्चित्तं मासगुरु, उभयविषयेषु द्वयोरपि प्रत्येकं वर्त्तनादिषु विष्वपि स्थानेषु पृथक् उभयं प्रायश्चित्तं मासगुरु मासलघु चेति, एवं गाथायामनुक्तमपि संप्रदायादवसितं, तथा अणापुच्छाइति अनापृच्छायामनुज्ञायामित्यर्थः अत्र चत्वारो भंगास्तद्यथा अननुज्ञातोऽननुज्ञातेन सह वर्तनां करोतीत्येको भंगः, अननुज्ञातोऽनुज्ञातेन सहेति द्वितीयः, अनुज्ञातो अननुज्ञातेनेति तृतीयः । अनुज्ञातो अनुज्ञातेनेति चतुर्थः एवं मंधनायां ग्रहणेपि च प्रत्येकं चत्वारो भंगाः एवमर्थेपि तदुभयस्मिन्नपि च प्रत्येकं वर्तनादिषु चत्वारश्चत्वारो भंगाः तत्र मूत्रविषये विष्वपि वर्तनादिषु स्थानेषु प्रत्येकमायेषु भंगेषु ददानस्य च गृहाणस्य च प्रायश्चित्तं मासलघु तपः कालविशेषितं तद्यथा वर्तनायामाद्येषु त्रिषु भंगेषु मासलघु, संधनायां मासलघु तपो गुरुकाललघु, ग्रहणे मासलघु, द्वाभ्यां गुरु तद्यथा । तपसा कालेन च, एवमर्थे तपः कालविशेषितं मासगुरु । तदुभयस्मिन् तदुभयप्रायश्चित्तमर्थ विषयं तदुभयविषयं च प्रायश्चिनं गाथायामनुपात्तमपि व्याख्यानादुपगतं; चतुर्थभंगः पुनः सर्वत्रापि शुद्ध इति न तत्र कस्यापि प्रायश्चित्तमिति, इहाचार्यस्यापि प्रमादतः सूत्रादिषु वर्तनादिकमकुर्वतमुपसंपनम For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy