SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यः पुनश्चोद्यमानान् शिक्षमाणान् शेषसाधून दृष्ट्वा ततः स्थानात् प्रमादस्थानात् निवर्त्तते, भणति च गुरुपादमूले गत्वा मन्युभराक्रांतो गद्गदस्वरेण अहं युष्मच्छरणमागतोपि भो भगवन् युष्माभिः शिक्षाया अप्रसादतस्त्यक्तः । न चैतत् भगवतां परमकरुणापरीतचेतसामुचितं तस्मात् प्रसादमाधाय मामपि सीदंतं शिक्षयध्वमिति, एष इत्थंभूतः प्रतिग्राह्यः कृता आवश्यकमधिकृत्य परीक्षा संप्रति प्रतिलेखनस्वाध्यायभोजनभाषाद्वाराणि अधिकृत्य तामाह । पडिलेहणसज्झाए एमेवय हीणअहियविवरीयं; दोसेहिं वा विभुंजइ, गारत्थियढरभासा ॥भा०८७॥ ___ एवमेवावश्यकोक्तेनैव प्रकारेण प्रतिलेखने स्वाध्याये च हीनमधिकं विपरीतं च कुर्वत आत्मीयान् शिक्षयते नतु तं परीक्ष्यमाणमित्यादि पूर्ववत् तत्र प्रतिलेखनायां हीनाधिकता नाम यत् कालतो हीनामधिकां चाप्रतिलेखनां करोति, खोटकादिभिर्वा हीनाधिका वा, विपरीतता नाम प्रभाते यन्मुखपोतिकादिक्रमेण न प्रत्युपेक्षते किंतु स्वेच्छया यदिवा पूर्वा रजोहरणं निःपश्चिमं प्रत्युपेक्षते अपराह्ने तु सर्वप्रथममित्यादि, स्वाध्याये हीनता नाम यद्यप्राप्तायामपि कालवेलायां कालप्रतिक्रमणं करोति, अधिकता यदि क्रांतायामपि कालवेलायां न कालं प्रतिक्रामति, वंदनादिक्रियां वा तदनुगतां हीनाधिका करोति, विपरीतता पौरुषीपाठमतिक्रांतायां पौरुष्यां पठति उत्कालिकं पौरुष्यामिति, तथा भोजनद्वारे आलोकादिविधिना सूत्रोक्तेन न मुंक्त दोषेापि, असुरसुरं अवचवचं अदुयमवलंबियमित्यादि विपरीतरूपैभुक्ते, तत्रात्मीयान् तथा भुंजानान् | शिक्षयते नतु परीक्ष्यमाणमित्यादि पूर्ववत् , भाषाद्वारे या अगारस्थितभाषा गृहस्थभाषा च ढड्डरभाषा स्थूरस्वरभाषा तां For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy